________________
२४०
.
श्रीदानोपदेशमाला (गा. ४१)
इति सूरिवचः श्रुत्वा भिल्लावूचतुरीश! नौ । गृहेऽस्ति पानं सत्सद्यः प्रसद्य प्रेष्यतां यती ॥ ६४ ॥ यथा तत्प्रासुकं पानं गृह्णीत इति जल्पिते । पुलिन्दकाभ्यामाचार्याः प्रेषयंस्तद्युतौ यती ॥ ६५ ॥ ततो गत्वा गृहे भिल्लौ, प्रचण्डानिलपातितैः । पत्रैः कषायितं भाण्डे दर्शयाञ्चक्रतुर्जलम् ॥ ६६ ।। वर्णगन्धरसस्पर्शः सम्यक् परिणतं तथा । अजीवं जीवनं ज्ञात्वा, जगृहाते महामुनी ॥ ६७ ॥ मुनिभ्यां शुद्धपानस्य दानादानन्दिताशयौ । पुलिन्ददम्पती इत्थं चिन्तयाञ्चक्रतुस्तराम् ॥ ६८॥ अद्यैव सफलं जन्म जीवितव्यं दिनं तथा । यदावाभ्यां मुनी एतौ सत्पानमुपकारितौ ॥ ६९ ॥ तस्य सत्पात्रदानस्य प्रभावात्तौ पुलिन्दकौ । बोधिबीजं सुरायुष्कं चार्जयामासतुस्तमाम् ॥ ७० ॥ मुनी विहत्य सत्पानं गुरूणां सविधं गतौ । वस्तुना तेन ते सर्वे सप्ताहात्पारणं व्यधुः ॥ ७१ ॥ ततस्तौ शबरौ सूरिवरान्मार्गे नियोज्य च । अभिवन्द्य च भावेन, निजं धाम समीयतुः ॥ ७२ ।। अन्यदा सुखसुप्तौ तौ, मृगेन्द्रेण विनाशितौ । जातौ मध्यमभावेन सौधर्मे भासुरौ सुरौ ॥ ७३ ॥ तत्र तावप्सरोवर्गभोगसंयोगलालितौ ।। क्रमान्निजायुरापूर्य च्युतौ सन्तावुभावपि ॥ ७४ ॥ जम्बूद्वीपे महाद्वीपे, भरतक्षेत्रभूषणे । श्रीवसन्तपुरे श्रीमच्चन्द्रशेखरभूपतेः ॥ ७५ ॥ कान्तायां चन्द्रलेखायां सुतत्वेन बभूवतुः । नाम्ना चन्द्रयश:सूर्ययशसौ यशसोज्ज्वलौ ॥ ७६॥ कुलकम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org