________________
पानदानविषये पुलिन्दमिथुनदृष्टान्तः
२३९ इतश्च सार्थतो भ्रष्टाः सुप्रतिष्ठाख्यसूरयः । बहुशिष्यपरीवाराः पर्यटन्त इतस्ततः ॥ ५२॥ तस्यामटव्यां संपेतुः पानाशनविवर्जिताः । पथि श्रान्ताश्च ते सप्तवासरी व्यतिचक्रमुः ॥ ५३॥ युग्मम् ॥ तेषां मध्यान्मुनि कञ्चिद् ग्रामादिकदिदृक्षया । उच्चस्तरां स्थलीमारोहन्तं भिल्लो न्यभालयत् ॥ ५४॥ अदृष्टपूर्वमेणाक्षि! किमेतद्वीक्ष्यते त्विति । ब्रुवन्नसौ शरं चापे संदधे शमिनं प्रति ॥ ५५ ॥ सापि भिल्ली मुनिं दृष्ट्वा जातजातिस्मृतिर्जगौ । हहा नाथ! रयाच्चापाच्छरं संहर संहर ॥ ५६ ॥ एष साधुरिवावश्यं लक्ष्यते जीवितेश्वर! । अतो न वध्य इत्युक्ते तया भिल्लो ह्यभाषत ॥ ५७ ॥ आकर्णय प्रिये! मामकीनो बाणः कदाचन । संहितो न मुधाभूतः, सोऽधुना स्यात्कथं वृथा ॥ ५८॥ साप्याह नाथ! दान्तानां धर्मध्यानविधायिनाम् । साधूनां वधतोऽवश्यं, प्रयान्ति नरके नराः ॥ ५९॥ तदेतस्मान्मनो दुष्टाध्यवसायान्निवर्त्तय । सोऽपि तद्वाक्यसञ्जातबोधः संहृतवान् शरम् ॥ ६० ॥ ततो भिल्लः प्रियायुक्तः समेत्य मुनिपुङ्गवम् । ननाम साकं तेनैव, गुरोरभ्यर्णमागतः ॥ ६१॥ प्रणिपत्योपविष्टेऽस्मिन् सभार्ये सूरिशेखराः । समयज्ञा इमां धर्मदेशनां दिदिशुर्मुदा ॥ ६२ ।। भो भो भव्याः ! संसृतौ संसरद्भिः सन्मानुष्यं जन्म लब्ध्वा कथंचित् । संजातायां साधुसामग्रिकायां भक्त्या देयं प्रासुकं पानदानम् ॥६३ ।। (शालिनी)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org