________________
२३८
श्रीदानोपदेशमाला (गा. ४१)
द्विजन्माऽपि हि तद्रागपिशाचच्छलिताशयः । विहाय कुलमर्यादां पल्लीशात्तामयाचत ॥ ४० ॥ पल्लीनाथोऽपि तारुण्यपुण्यलावण्यशालिने । कलाकलापयुक्ताय, तस्मै तां कन्यकां ददौ ॥ ४१ ॥ परिच्छदोऽवदद्विप्र! शुद्धपक्षस्य हंसवत् । तव भिल्लसुताकाक्या साकं संगो न सुन्दरः ॥ ४२ ॥ इत्थं निवारितोऽप्येष पापस्तद्रूपमोहितः । तामुपायंस्त ही कामः कामं कं न विडम्बयेत् ॥ ४३ ॥ उक्तं च-विकलयति कलाकुशलं हसति शुचिं पण्डितं विडम्बयति । अधरयति धीरपुरुषं, क्षणेन मकरध्वजो देवः ॥ ४४॥ (आर्या) तदकृत्यं समालोक्य लज्जितः सविता निजान् । करान् संकोच्य वेगेनागच्छदस्ताचलस्थलीम् ॥ ४५ ॥ परिवारोऽपि तं विप्रवरमाचारदूषितम् । अलं मलमिव त्यक्त्वा कुबेरनगरं ययौ ॥ ४६॥ द्विजोऽपि पल्लीनाथस्य गृहस्थो भोगभङ्गिभृत् । योगीव परमब्रह्म तां सिषेवे दिवानिशम् ॥ ४७॥ अथायाते महाभीष्मे ग्रीष्मे तौ तापतापितौ । कारयाञ्चक्रतुः सौख्यावहं द्राक्कदलीगृहम् ॥ ४८॥ तत्र पुष्पोत्कराकीणे, शयनीयेऽतिशीतले । प्रसुप्तौ दम्पती पुण्यक्षयाद् दष्टौ महाहिना ॥ ४९ ॥ ततस्तौ दम्पती मृत्वा मध्यमाध्यवसायतः । सह्यशैलेऽटवीकालाशन्यां जातौ पुलिन्दकौ ॥ ५० ॥ तत्र कन्दफलाहारौ वृक्षत्वग्वेषधारिणौ । मिथः प्रीतिपरौ कालं, गमयामासतुस्तमाम् ॥ ५१ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org