________________
२३७
पानदानविषये पुलिन्दमिथुनदृष्टान्तः तया पृष्टा सकष्टं सा, वृत्तान्तं स्वं न्यवेदयत् । सापि तां धर्मपुत्रीति कृत्वास्थापयदालये ॥ २८ ॥ सा पि स्वपितृवेश्मस्थमिवात्मानं सुलोचना । मन्वाना तद्गृहे कालं, नयति स्म समाधिना ॥ २९ ॥ अथो कुबेरदत्तस्य, कुबेरनगरप्रभोः ।। सन्धिविग्रहिकोऽनेकभटकोटिसमुत्कटः ॥ ३० ॥ दण्डार्थं ब्राह्मणज्ञातिर्नाम्ना मदनविग्रहः । पल्ल्यां समागतः पल्लीशेन स्वौकस्यनीयत ॥ ३१॥ युगलम् ॥ तस्मै प्राभृतकं दन्तिदन्तमुक्ताफलादिकम् । पल्लीपतिरदाद्राज्ञामाज्ञा कैः खलु खण्ड्यते ॥ ३२ ।। तेन संमानपूर्वं स विसृष्टो द्विजनन्दनः । दैवात्तन्मन्दिरे रत्नं प्रविस्मार्य प्रचेलिवान् ॥ ३३ ॥ पल्लीश्वरोऽपि तद्रत्नं दत्त्वा धर्मसुताकरे । प्राहिणोत्सापि तं दृष्ट्वा काममूर्त्तिविडम्बकम् ॥ ३४॥ द्विजन्मानं नमस्यन्ती कम्पमानस्तनद्वया । जगाम कामबाणानां निकाममपि लक्षताम् ॥ ३५ ॥ युग्मम् ॥ विप्रोऽपि तां कुरङ्गाक्षीं, विनिरीक्ष्य स्मरातुरः । दीर्घं निःश्वस्य नि:श्वस्यापृच्छदागमकारणम् ॥ ३६ ।। सापि प्राह द्विजाहं ते तातेन प्रेषितान्तिकम् । इदं रत्नं गृहाणैवमुक्त्वा सा तत्करे ददौ ॥ ३७ ।। तदान्योन्यकरस्पर्शात्तावुभावपि मन्मथः । अवाप्तावसरः स्वाज्ञां ग्राहयामास हेलया ॥ ३८ ॥ ततः सा तमनुज्ञाप्य मुक्त्वा तत्रैव मानसम् । केवलेनैव वपुषा जगाम निजमन्दिरम् ॥ ३९ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org