________________
२३६
श्रीदानोपदेशमाला (गा. ४१) दुःखार्दितास्ततस्तस्याः पित्रादिस्वजना मुनिम् । क्षमयन्ति यतः साधुजनः प्रायः कृपापरः ॥ १६ ॥ ऊचिरे चापि हे वत्से! वात्सल्याब्धिममुं मुनिम् । क्षमयस्व ततः साऽपि तस्य पादाग्रतोऽलुठत् ॥ १७ ॥ तां साधुभक्तां विज्ञाय यक्षः प्रोवाच शान्तरुट् । याहि नाहलवंशे त्वं, तत्र सुस्था भविष्यसि ॥ १८॥ इतो भवे तृतीये ते, शापस्यान्तो भविष्यति । इत्युक्ते तेन सोड्डीयावतीर्णा नाहलान्वये ॥ १९ ॥ तस्या अदर्शनाज्जातशोकशङ्काकुलाशयौ । पितरौ हा सुते! क्व त्वं गतेत्याक्रन्दतां चिरम् ॥ २० ॥ ततस्तौ बन्धुवर्गेण कथंचिदपि रोदनात् । निवारितौ यतोऽपत्यविरहः खलु दुःसहः ॥ २१ ॥ सा मेघमुखपल्लीन्द्रपल्यङ्कस्थं स्वमैक्षत । पल्लीशदासी तां दृष्ट्वा प्रभोश्चाग्रे न्यवेदयत् ॥ २२ ॥ देवाद्य युष्मत्पल्यङ्के निविष्टां कामपि स्त्रियम् । सर्वाङ्गसुन्दराकारामपश्यं देवतामिव ॥ २३ ॥ एवं निशम्य पल्लीन्द्रः साश्चर्यस्तां कृशोदरीम् । उपागत्यावदद् भद्रे! कासि त्वं कुत आगता ॥ २४ ॥ मरालिन्येव नालीकं किं कुलं भूषितं त्वया । इत्युक्ते तेन सारोदीन्न च प्रतिगिरं ददौ ॥ २५ ॥ इदं साध्यं स्त्रिया साध्यमिति संचिन्त्य पल्लिराट् । निर्ययौ मेघमालायाः स्वपत्न्याश्च पुरोऽब्रवीत् ॥ २६ ॥ प्रिये! विश्वास्य मधुरैर्वाक्यैरस्याः कुलादिकम् । पृच्छेति पत्यादिष्टा सा तदन्तिकमुपागता ॥ २७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org