________________
२३५
पानदानविषये पुलिन्दमिथुनदृष्टान्तः सा तन्वी जीवितेशेन समं वैषयिकं सुखम् । भुञ्जानाधानमुद्दधे रत्नं रोहणभूरिव ॥ ४॥ सुखं सुखेन सा गर्भं पालयन्ती प्रमोदतः । समये सुषुवे पुत्री नयनानन्दचन्द्रिकाम् ॥ ५॥ ततः पित्रा प्रमोदेन, पुत्र्या जन्ममहोत्सवः । अकार्यत तथा चक्रेऽभिधा मदनमञ्जरी ॥ ६॥ धात्रीभिः सादरं पाल्यमाना सा मृगलोचना । शुक्लपक्षेन्दुलेखेव वृद्धि प्राप दिने दिने ॥ ७॥ अथैकदा तपःक्षामकुक्षिश्चिपिटनासिकः । दन्तुरः कुत्सिताकार: कुकर्णोऽतिमलीमसः ॥ ८॥ दवानलपरिप्लुष्टकीलवत्कृष्णविग्रहः । महर्षिः कोऽपि तद्गेहमागान्मासिकपारणे ॥ ९॥ युगलम् ॥ तं वीक्ष्य द्विजपुत्री सा निजसौभाग्यगर्विणी । अहो रूपमहो रूपमिति दुष्टाहसन्मुनिम् ॥ १० ॥ तदा कोऽपि हि तद्भक्तो यक्षः खरमुखाह्वयः । मुनिदेहेऽवतीर्याह सरुषा परुषाक्षरम् ॥ ११ ॥ आ दुष्टमानसे! मिथ्यारूपाहंकारधारिणि! । शान्तात्मनो मुनेरस्योपहासस्य प्रभावतः ॥ १२ ॥ दुःखौघपीडिता भोगहीना दीनानना सती । भवानां सप्तकं नीचवंशेऽवश्यं भ्रमिष्यसि ॥ १३॥ युग्मम् ॥ इत्थं तद्वचनं वज्रप्रपातमिव दारुणम् ।। श्रुत्वा हा तात! हा मातः!, पाहि पाहीति सारुदत् ॥ १४॥ दध्यौ चेहैव मे साधुहासभूः पापभूरुहः । फलितोऽस्य च पापाब्धेः पारं प्राप्स्यामि हा कथम् ॥ १५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org