________________
२३४
श्रीदानोपदेशमाला (गा. ४१) वण्णगंधरसेणं वा परिणयं फरिसेण वा । अजीवं परिणयं णच्चा पडिगाहिज्ज संजए ॥ ४॥ बहिरंतरित्ति-बाह्यं शारीरिकम्, आभ्यन्तरं-त्वात्मकृतं, यन्मलं-कश्मलं, तस्य विशोधि:-प्रक्षालनं, तस्य (सं)जनकमुत्पादकम्, ॥ सत्तविहत्तिसप्तविधा:-सप्तप्रकारा याः पानैषणास्ताश्चेमाःसंसिट्ठ असंसिट्ठ उद्धड तह अप्पलेविया चेव । उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥ १॥
[श्रीप्रवचनसारोद्धारः ७३९] तासां यद्दूषणं-दोषस्तेन रहितं पानं स्यादिति गाथार्थः ॥ सदृष्टान्तं पानकाहारमाहमग्गपरिस्संताणं तण्हातरलाण देइ समणाणं । जो पाणं सो पावइ पुलिंदमिहुणुव्व सुहमसमं ॥ ४१॥
व्याख्या-यो विवेकश्छेकबुद्धिर्मार्गपरिश्रान्तेभ्यः-पथखिन्नेभ्योऽत एव तृष्णातरलेभ्यस्तृट्परीषहात् क्लान्तेभ्यः, श्रमणेभ्यः-साधुभ्यः, पानं-प्रासुकजलम्, दत्ते-वितरति, स पुलिन्दमिथुनवदसमं अनन्यमसामान्यम् , सुखं-स्वर्गादिसम्बन्धि, प्राप्नोति-लभत इति गाथार्थः ।। भावार्थस्तु कथानकगम्यस्तच्चेदम्अस्ति श्रिया विशालं श्रीविशालनगरं वरम् । यदन्तश्च बहिश्चैव सदारामोपशोभितम् ॥ १॥ तत्र नाम्ना च धाम्ना च श्रीशूरः पृथिवीश्वरः । पालयाञ्चकृवान् राज्यं हृतराजधनोदयः ॥ २॥ तस्याध्ययननामभ्यामभूद् वेदमुखो द्विजः । तस्य प्रजासृज इव सावित्रीदयिताऽजनि ॥ ३॥ १. तुलना आव.हारिभद्री पृ.५७२.. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org