SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ अशनदानविषये श्रीधनश्रेष्ठिकथानकम् २३३ ततो यतिपतिं नत्वानङ्गसेनाप्रियान्वितः । धनसेनाभिधः श्रेष्ठी निजं सदनमासदत् ॥ १७२ ॥ ततः प्रभृति सत्पात्रादिषु दानं न्यधात्तथा । धनसेनो यथा दातृवर्गे सोऽभून्निदर्शनम् ॥ १७३ ॥ तौ दम्पती सुखेनायुः प्रतिपाल्य दिवं गतौ । ततः क्रमेण निर्वाणपदवीमप्यवाप्स्यतः ॥ १७४॥ इति भव्यजना विभाव्य तद्धनसेनस्य चरित्रमद्भुतम् । विदधीततमामखण्डितं मुनिदानं शिवसम्पदां पदम् ॥ १७५॥ (मत्तावृत्तम्) ॥ इति श्रीरुद्रपल्लीयगच्छशृङ्गारहार श्रीसंघतिलकसूरिशिष्यश्रीदेवेन्द्रसूरिविरचितायां श्रीदानोपदेशमालावृत्तावशनदानविषये श्रीधनसेनश्रेष्ठिकथा समाप्ता ॥ अशनवैषयिकं धनसेनश्रेष्ठिदृष्टान्तमुक्त्वा द्वितीयं पानस्वरूपमनुरूपं प्ररूपयन्नाहजिणवरआगमभणियं बहिरन्तरमलविसोहिसंजणयं । सत्तविहपाणएसणदूसणरहियं सिया पाणं ॥ ४०॥ व्याख्या-जिनवरास्तीर्थंकरास्तेषां योऽसावागमः-सिद्धान्तस्तत्र भणितं-कथितं, यदुक्तं व्यवहारचूर्णीपाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव। आउक्काओ सव्वो संगरकइराइणीरं च॥ १॥ खजूरदक्खदाडिमचिंचापाणाइ तक्कमिक्खुरसो । गुडखंडाईणीरं आयामुस्सेइमाइं च ॥ २॥ निशीथभाष्ये पुनस्त्वेवंअण्णजलं उण्हं वा कसायदव्वेहिं मीसियं वावि ॥ कप्पइ जईण णण्णं सुविहियकप्पट्ठियाणं तु ॥ ३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy