________________
२३२
श्रीदानोपदेशमाला (गा.-३९) प्रभो! मयि दयां कृत्वा, शुद्धानादत्स्व मण्डकान् । भवकोटिभवैः पुण्यैः सत्पात्रं प्राप्यते यतः ॥ १६० ॥ मुनिद्रव्यादिभिः पूर्णं, ज्ञात्वा निजमभिग्रहम् । पात्रं ह्यमण्डयत्सोऽपि, कराभ्यां मण्डकानदात् ॥ १६१ ॥ अत्रान्तरे गृहं प्राप्ता सुसेना तस्य वल्लभा । तस्मै महर्षये दानं ददानं प्रियमैक्षत ॥ १६२ ।। हर्षादचिन्तयच्चैवं धन्योऽयं मम वल्लभः । घोराभिग्रहधार्येष कारितो येन पारणम् ॥ १६३ ॥ अभ्यन्तरे विशुद्धोऽपि किमेवं बाह्यवर्मणि । मुनिर्मलं बिभर्तीति जुगुप्सां तस्य साकरोत् ॥ १६४ ॥ कृतकृत्यो मुनिः स्थानं गत्वा पारणकं व्यधात् । सुमित्रोऽपि तदा लोकैर्धन्योऽयमिति शंसितः ॥ १६५ ॥ कल्पद्रुमादिवागण्याद् दानपुण्याद् घनं धनम् । उपाय॑ जीर्णचैत्यानामुद्धारं सोऽकरोन्मुदा ॥ १६६ ॥ स सुमित्रो विपद्यायुःक्षये श्रीविजयस्थले । सुमङ्गलश्रेष्ठिगृहे धनसेनो भवानभूत् ॥ १६७ ॥ जुगुप्सातः सुसेनापि मृत्वा वाराङ्गनागृहे । अनङ्गसेना सञ्जज्ञे ही निन्दानर्थभाजनम् ॥ १६८॥ यत्सान्तरेण भावेन, भक्तं दत्तं सुसाधवे । पूर्वजन्मनि तेनात्राभूवंस्ते खण्डिताः श्रियः ॥ १६९ ॥ अतस्त्वयान्वहं भावशुद्ध्या दानमखण्डितम् । सत्पात्रेषु नियोक्तव्यं, येन श्रीः स्यान्निरन्तरा ॥ १७० ॥ एवं मुनिमुखाच्छृत्वा, जातपूर्वभवस्मृती । तौ दम्पती तदभ्यर्णे जगृहाते गृहिव्रतम् ॥ १७१ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org