________________
अशनदानविषये श्रीधनसेन श्रेष्ठिकथानकम् ततो दिनात्समारभ्य, सुमित्रस्य गृहे घनाः । धनधान्यर्द्धयोऽभूवन्नहो दानतरोः फलम् ॥ १४८॥ अस्मिन्नवसरे ग्रामे, मुनिर्भुवनमित्रकः । आत्मप्रत्यक्षमीदृक्षमुग्राभिग्रहमग्रहीत् ॥ १४९ ।। द्रव्यं तु मण्डका ग्रामेऽत्राह:पश्चिमयामके । दूरदेशादुपायातो, धूलीधूसरिताङ्गकः ॥ १५० ॥ दार्वश्वयुगलारूढः पाणिपद्मयुगेन मे । यदीदृशः पुमान् दाता, तदा पारयितास्म्यहम् ॥ १५१॥ युग्मम् ॥ ततः केनापि कार्येण ग्रामेऽन्यत्र सुमित्रकः । गतः प्रत्यागतः सप्तमास्या निजनिकेतनम् ॥ १५२ ॥ तस्मिन्नवसरे तस्य सुहृद्गेहे करग्रहः । तेन स्थालासनादीनि, नीतानि निखिलान्यपि ॥ १५३ ॥ तदा तदीयजायापि, भोजनाय सुहृद्गृहे । गतासीदिति वृत्तान्तं, सुमित्रोऽप्यवजग्मिवान् ॥ १५४ ।। क्षुधार्तोऽह्रोऽन्तिमे यामे, सोऽपश्यन्नाशनं क्वचित् । संयोज्याश्वयुगन्दारनिर्वृत्तमुपविश्य च ॥ १५५ ।। पूर्वग्रामहृतानेतान्मण्डकानेव केवलान् । मुक्त्वाग्रे चिन्तयामास, हातिथिर्नाद्य वीक्षितः ॥ १५६॥ युगलम् ॥ अथो भुवनमित्राख्यश्चरन् गोचरचर्यया । षण्मासीमतिचक्राम, संपूर्णाभिग्रहाग्रहः ॥ १५७ ॥ तद्ग्रामवासिलोकेन, नानाद्रव्यादिवस्तुकम् । ददानेनापि नापूरि स तस्याभिग्रहो मुनेः ॥ १५८॥ तदा स दैवात् स्वागारे प्रविशन् वीक्ष्य हर्षतः । मुनिः सादरमुत्थाय, सुमित्रेण निमन्त्रितः ॥ १५९ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org