________________
२३०
श्रीदानोपदेशमाला (गा.-३९) मुनिराह पुरा गङ्गाविषये विषयोत्तमे । शालिशीर्षाभिधो ग्रामोऽभिरामो धान्यसम्पदा ॥ १३६ ॥ तत्र लोके सदा सातशालिन्यपि हि कश्चन ।। प्रकृत्या भद्रको नाम्ना सुमित्रोऽस्ति सुदुर्गतः ॥ १३७॥ स भृशं कृशवित्तोऽपि दानश्रद्धापरायणः । यस्मै तस्मै किमप्येष, दत्त्वा भुङ्क्तेऽन्यथा न हि ॥ १३८॥ स चित्ते मन्यते दानं, दत्तं नैवान्यजन्मनि । तेनाहं दुःखितो दीनोऽजनिषीह महीतले ॥ १३९ ॥ उपायाभावतोऽन्येदुर्गृहीत्वा शम्बलस्थगीम् । दुर्गतश्चारुदारूणि ग्रहीतुमटवीमगात् ॥ १४० ॥ तस्यां परिभ्रमन्नदिशिखरोपरि दुर्गतः । कायोत्सर्गस्थितं साधुमपश्यद् धर्मपुञ्जवत् ॥ १४१ ।। तदुपास्तिं वितन्वानो यावदस्थात्सुमित्रकः । तावन्मासतपस्तस्य तूर्णं पूर्णं महात्मनः ॥ १४२ ॥ पारयित्वा मुनिः कायोत्सर्ग पारणहेतवे ।। पात्रादिकमुपादायाचलद् ग्राम प्रति प्रभुः ॥ १४३ ॥ तस्य पारणकं ज्ञात्वा, सुमित्रो हृष्टमानसः । प्रासुकैरन्नपानाद्यैर्व्यमन्त्रयदृषीश्वरम् ॥ १४४ ॥ मुनिनापि धृते पात्रे भोज्यस्यार्धं ददौ सुधीः । दूरे ग्राम इति ध्यात्वाऽस्थापयच्चात्मनेऽर्धकम् ॥ १४५ ॥ अन्नार्धेन न मे तृप्तिर्न मुनेरपि भाविनी । इति ध्यात्वा सुधीः शेषमप्यदान्मुनये मुदा ॥ १४६ ॥ मुनिदानप्रभावेण भावेनापि च तादृशा । सोऽर्जयित्वा निधिमिव पुण्यं स्वं गेहमागतः ॥ १४७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org