________________
अशनदानविषये श्रीधनसेन श्रेष्ठिकथानकम्
२२० इति श्वश्रूवचः श्रुत्वा वेणिबन्धं विधाय सा । शुभ्रे च वाससी पर्यधत्त माङ्गल्यमण्डनम् ॥ १२४ ॥ देवानानर्च साक्षीणं नाद्राक्षीन्मृगलाञ्छनम् । प्रियसंयोगमन्त्रं च सस्मार प्रतिवासरम् ॥ १२५ ॥ एवं विदधती बाला नयन्ती समयं रयात् । त्वदीयागमनेनैषा, मयावऱ्यात हे सखे! ॥ १२६ ॥ भवदागमनं श्रुत्वा तथा तोषं ततान सा । यथा सहस्रजिह्वोऽपि वक्तुं शक्तोऽस्ति वा न वा ॥ १२७॥ ततो मह्यं सुवर्णस्य जिह्वा दत्त्वा प्रमोदतः । कलशध्वजदामाद्यैः सा मन्दिरममण्डयत् ॥ १२८॥ श्रीदेवीप्रमुखाः सर्वे स्वजना भवदागमम् । समाकर्ण्य समुत्कर्णा जाता उत्कण्ठिताशयाः ॥ १२९॥ भद्रमूर्तिमुखादेवं निशम्य श्रेष्ठिनन्दनः । पितुरुज्ज्वलयन् कीर्तिं दानैः स्वगृहमागमत् ॥ १३० ॥ भक्तितो मातरं नत्वा, स चासाद्य तदाशिषम् । व्यधादनङ्गसेनाया वेणीबन्धस्य मोक्षणम् ॥ १३१ ॥ धनसेनस्ततोऽनङ्गसेनाख्यप्रियदर्शने ।। दयिते रञ्जयामास भोगयोगैरभङ्गुरैः ॥ १३२ ॥ जज्ञिरेऽनङ्गसेनायाः श्रीषेणप्रमुखाः सुताः । तथा विजयसेनादीनसूत प्रियदर्शना ॥ १३३ ॥ अन्यदा प्राप्तमुद्याने मुनिं श्रुत्वा स्वयंप्रभम् । धनसेनोऽनङ्गसेनासहितो वन्दितुं ययौ ॥ १३४ ॥ नत्वा श्रुत्वा तथा व्याख्यां स पप्रच्छ मुनिप्रभुम् । खण्डिता मे किमित्यासन्, श्रियस्तद् भगवन्! वद ॥ १३५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org