________________
२२८
श्रीदानोपदेशमाला (गा. ३९) परं यदीदं वाक्यं मे, मन्यतेऽम्बा तदाम्यहम् । स्मरामि चेति चेतोऽन्तश्छेकोक्तं सूक्तमुत्तमम् ॥ ११३ ॥ जीवन्त्यां मयि यधुपैति दयितो मन्येऽकलङ्कस्तदा, तस्मिन् स्निग्धजने वियोगिनि कथं प्राणान्निदध्यामहम् ॥ मृत्युश्चेन्न हि तत्समागमसुखं तस्यापि मृत्युभ्रुवम् , कष्टं तद्विरहे विकल्पबहुलं दोलायते मे मनः ॥११४॥ (शार्दूलविक्रीडितम्) तच्छ्रुत्वाचिन्तयन् सख्यो नेदृशी स्यात्पणाङ्गना । नूनं सतीव्रतस्वर्णकषपट्टनिभा त्वियम् ॥ ११५ ।। इत्थं सखीमुखात्सर्वं, तत्स्वरूपं निशम्य सा । पुत्र्याः पतिव्रताभाव एव स्यादित्यमन्यत ॥ ११६ ॥ ततः सानङ्गसेनापि, पालयन्ती सतीव्रतम् । श्रीदेव्या धनसेनस्य मातुरन्तिकमाययौ ॥ ११७ ॥ निरन्तरक्षरद्वाष्पसलिलेनेव सादरम् । क्षालयन्ती निजश्वश्रूचरणौ साभ्यवन्दत ॥ ११८ ॥ व्यजिज्ञपच्च हे मातर्योग्या यद्यपि नास्म्यहम् । तथापि तेऽन्तिके स्थात्री यावदेति भवत्सुतः ॥ ११९ ।। धनसेनजनन्येष, परिच्छद इदन्धनम् । इदं मे जीवितं चैतत्सर्वं त्वद्वशमेव हि ॥ १२० ॥ इमां तगिरमाकर्ण्य श्रीदेवी हृद्यचिन्तयत् । इयं जात्येव वेश्यास्ति, कर्त्तव्येन पुनर्न हि ॥ १२१॥ स एव मामकीनोऽङ्गजन्मा धन्यतमो भुवि ।। यस्येदृग्गुणसुन्दा सुन्दर्या सह सङ्गतिः ॥ १२२ ।। ततः सा प्राह हे वत्से! त्वमेवासि वधूर्मम ।। तिष्ठन्त्यां त्वयि मद्धाम प्रशस्यं च श्रियामिव ॥ १२३ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org