SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ अशनदानविषये श्रीधनसेन श्रेष्ठिकथानकम् तदा चिरमनावृष्टिरासीत्तत्र पुरे पुरा । धनसेने पुनः प्राप्तेऽचल क्षेत्रेष्वभूद् घनः ॥ १०१ ॥ तेभ्यो बभूवुर्धान्यानां राशयः शैलसंनिभाः । तांश्चालोक्याचलोऽज्ञासीन्माहात्म्यं धनसेनजम् ॥ १०२ ॥ कियन्मात्रं धनं तस्मै, विश्राण्य चलितस्ततः । श्रीपुण्ड्रवर्धने श्रेष्ठिपद्मसद्म समाययौ ॥ १०३॥ तेनापि सत्कृते तस्मिन्, धनसेने तदेव हि । माणिक्यस्वर्णसम्पूर्णनिधानं समवाप्यत ॥ १०४॥ पद्मः प्रोवाच हे वत्स! तव भाग्योदयादयम् । निधिर्लेभे मयातोऽमुं गृहाणानुगृहाण माम् ॥ १०५॥ धनसेनोऽपि तं तस्मै निधिमन्यत्तथा धनम् । प्रवितीर्य ततोऽवाप स्वपुरासन्नकाननम् ॥ १०६॥ तेन स्वधामशुद्ध्यर्थं भद्रमूर्त्यभिधो बटुः । प्रैषि सोऽपि ततोऽभ्येत्योदन्तमेवमवोचत ॥ १०७ ॥ देव! लीलावतीवेश्यागृहात्त्वयि विनिर्गते । अनङ्गसेनया त्यक्तमन्नपानं दिनत्रयम् ॥ ९०८९ तन्मृत्युभीता लीलावत्याह तस्याः सखीजनम् । तथा कार्यं यथा पुत्री, विधत्ते भोजनक्रियाम् ॥ १०९॥ सोऽपि तत्पार्श्वमभ्येत्याचख्यौ सखि ! विषादताम् । मुञ्च भुङ्क्ष्व ततोऽप्यन्यो भावी ते प्रवरो वरः ॥ ११० ॥ स्थितिरेषा हि वेश्यानां यदेकस्मिन्नरे क्वचित् । आसक्तिः क्रियते नैव तत्त्यजैनं कदाग्रहम् ॥ १११ ॥ बालाप्याह स्थितेरस्या वज्रं ततु मूर्धनि । ममेह जन्मनि प्रेयान् श्रेष्ठिसूरेव नापरः ॥ ११२ ॥ Jain Education International For Personal & Private Use Only २२७ www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy