________________
२२६
प्रमार्जयन्ती सा चित्रशालां तां मणिमालिकाम् । दृष्ट्वा तदैव कान्ताय तत्स्वरूपं न्यवेदयत् ॥ ८९॥ स एष सत्यमेतस्य विलासः पुण्यपापयोः ।
,
ज्ञात्वेति स प्रियां प्राह क्वापि नैतन्निवेद्यताम् ॥ ९० ॥ श्रेष्ठिनं भोजनादूर्ध्वं धनसेनोऽवदत्तदा । ततोऽनिवेद्य तां रत्नमालामादाय जग्मिवान् ॥ ९१ ॥ तस्याः प्रभावतोऽनल्पः संजातोऽयं धनोदयः । अतः प्रसत्तिमासूत्र्य, गृहाण मणिमालिकाम् ॥ ९२ ॥ सोऽचिन्तयदहो अस्य कापि सत्त्वैकशालिता । यदनेनागृहीतापि, मणिमाला प्रदीयते ॥ ९३ ॥ ग्रस्यमानामिमां वीक्ष्य वीक्षापन्न इवैषकः ।
श्रीदानोपदेशमाला (गा. ३९)
असंभाव्यमिदं ज्ञात्वा नाभाषत ममाग्रतः ॥ ९४॥ उक्तं च- असंभाव्यं न वक्तव्यं, प्रत्यक्षं यदि दृश्यते । यथा वानरसंगीतं, तथा तरति सा शिला ॥ ९५ ॥ विभाव्येति निजे चित्ते तं प्रत्याह सुदर्शनः । असत्यवचनैः किं मां विप्रतारयसेऽनघ ! ॥ ९६ ॥ श्रेष्ठी स्वजायया दृष्टमदृष्टश्रुतपूर्वकम् । सर्वं स्वरूपं तस्याग्रे कथयाञ्चकृवांस्ततः ॥ ९७ ॥ धनसेनोऽपि तस्याग्रे स्वं स्वरूपं यथास्थितम् । निवेद्य तद्गृहे कालं कियन्तमनयन्नयी ॥ ९८ ॥ सोऽस्मै दत्त्वा मणीमाले स्वपुरालोकनोन्मनाः । प्रस्थायदूर्ध्या गरीयस्या मङ्गलद्रङ्गमागमत् ॥ ९९॥ तत्र श्री अचल श्रेष्ठी सादरं तं स्वमन्दिरे । नीत्वा गौरवयामास सर्वत्रार्च्या हि सज्जनाः ॥ १००॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org