________________
२२५
अशनदानविषये श्रीधनसेन श्रेष्ठिकथानकम् भाग्योदयवशादेष द्रव्यजातं समर्जयन् ।। दानेन प्रीणयन् सर्वान्, लोकान् विख्यातिमानभूत् ॥ ७६ ॥ एकदा स यदा वित्तोपार्जनोपायमद्भुतम् । स्वचित्ते चिन्तयामास तदा तेनेति शुश्रुवे ॥ ७७॥ यदत्रैव पुरे यक्षः सुन्दरो यो निषेवितः । दत्ते वित्तं प्रतिशतरूप्यवृद्ध्या तनूमताम् ॥ ७८ ॥ ततो दिने प्रशस्तेऽसौ गत्वा यक्षालये तथा । विधाय सुरभिद्रव्यैस्तस्य पूजां व्यजिज्ञपत् ॥ ७९ ॥ सुवर्णमयदीनारकोट्येका यक्ष! मद्गृहे । प्रवेश्या सा च देया ते कलान्तरयुता मया ॥ ८० ॥ इत्युक्त्वा स ययौ सोऽपि प्रोक्तस्थाने मुमोच ताम् । यक्षः कुसीदलुब्धो ही, लोभः कं कं न बाधते ॥ ८१ ।। तया श्रीधनसेनोऽपि व्यवसायाननेकशः । तन्वानो द्विचतुःसङ्ख्याः स्वर्णकोटीरुपार्जयत् ॥ ८२॥ यथा पापाद् गता लक्ष्मीरुपेता पुण्यतस्तथा । इति ध्यायन् स पात्रादिदानाय प्रगुणोऽभवत् ॥ ८३ ॥ सोऽर्चापूर्वं ददे द्रव्यं, यक्षाय सकलान्तरम् । तस्मै तरलहाराभां सोऽपि रत्नावलीमदात् ॥ ८४ ॥ कृतकृत्योऽथ बोहित्थवृन्दमापूर्य वस्तुभिः । तीर्वाब्धिं तामलिप्त्यां स आगात्सौदर्शनं गृहम् ॥ ८५ ॥ श्रेष्ठ्यपि स्नानपानाद्यैस्तं सत्कृत्य निजां प्रियाम् । आदिशच्चन्द्रशालायाः समारचनहेतवे ॥ ८६ ।। धनसेनं तदा दृष्ट्वा स पूर्वव्यन्तरोऽतुषत् । रुष्यत्यपुण्यैः सर्वोऽपि पुण्यैस्तु परितुष्यति ॥ ८७॥ तस्य प्रभावतः कुब्जावतीर्यालेख्यभित्तितः । मुक्त्वा तरलहारां तां स्वं स्थानं पुनरप्यगात् ॥ ८८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org