________________
२२४
श्रीदानोपदेशमाला (गा.३९)
भोजनानन्तरं चन्द्रशालां प्राप्तस्य तस्य सः 1 श्रेष्ठी तरलहाराख्यां मणिमालामदर्शयत् ॥ ६४॥ ततः प्रोवाच हे वत्सामुष्याः निष्कास्य कानिचित् । रत्नानि व्यवसायार्थं, प्रदातास्मि भवत्कृते ॥ ६५ ॥ एवमुक्त्वा मणीमालां, तस्य पार्श्वे विमुच्य सः । केनापि हेतुना चन्द्रशालातोऽधस्तलं ययौ ॥ ६६॥ अथ श्रेष्ठिसुतं दृष्ट्वा, व्यन्तरः कोऽपि कोपतः । आलेख्यलिखितां चेटीं कुब्जिकामध्यशिश्रियत् ॥ ६७ ॥ ततोऽवतीर्य सा वेगाद् धनसेनकरस्थिताम् । मणिमालां गिलित्वा तां पुनः स्वस्थानमाश्रिता ॥ ६८ ॥ विषादविस्मयोपेतः स निरीक्ष्येदृगद्भुतम् । अनुक्त्वा सत्रपस्तस्यागाराच्चौर इवागमत् ॥ ६९॥ पथि व्रजन्नसौ दध्यावहो पापोदयो मम अन्यथा कथमेवं स्युरनर्थानां परम्पराः ॥ ७० ॥ किन्त्वहं वेद्मि यत्पूर्वभवे दानं वितन्वता । भावोऽखण्ड्यत तेनैताः संपदो मम खण्डिताः ॥ ७१ ॥ यद्वा संपत्स्यते संपत्पुण्यात्पापात्तु हीयते । तथापि व्यवसाये धीर्न त्याज्या धीधनैर्जनैः ॥ ७२ ॥ इति ध्यायन्नयं प्राप पद्मिनीखण्डपत्तनम् ।
ततः सागरसेनेन, साकं पोतमशिश्रियत् ॥ ७३॥ सिंहलद्वीपमासाद्य स एवं हृद्यचिन्तयत् ।
प्रायः क्षीणानि पापानि, यद् भग्नं वहनं न मे ॥ ७४॥ ततः सुमङ्गलश्रेष्ठिपुत्रो रत्नपुरं गतः 1 उपायान् रचयाञ्चक्रे, धनार्थं पार्थिवो यथा ॥ ७५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org