________________
अशनदानविषये श्रीधनसेन श्रेष्ठिकथानकम्
एकविंशतिकोटीनां, स्वर्णानामीशितुः सुतः । द्वाचत्वारिंशतः कोटीर्यावन्नोपार्जयाम्यहम् ॥ ५२॥ तावन्नायामि धाम्नीति सन्धामाधाय मानसे । ततः पुण्यसखोऽचालीद् धीमान् देशान्तरं प्रति ॥ ५३॥ धनसेनो व्रजन् मार्गे पुरेऽगात्पुण्ड्रवर्धने । तत्पितुः सुहृदा पद्मश्रेष्ठिना च व्यलोक्यत ॥ ५४ ॥ मम मित्रस्य पुत्रोऽयमिति नीत्वा स्वमन्दिरे । भोजनाच्छादनाद्यैस्तं सच्चकार वणिग्वरः ॥ ५५॥ वात्सल्यात् श्रेष्ठिना श्रेष्ठिसूनुरागमकारणम् । पृष्टः सर्वं यथावृत्तं स्ववृत्तान्तं न्यवेदयत् ॥ ५६॥ निशम्य तन्मुखादेतद् दयार्द्रः सोऽब्रवीदिति । वत्स ! त्वदीयमेवेदं वेश्म वित्तं च तिष्ठ तत् ॥ ५७॥ सोऽपि प्रमुदितो यावत्पल्यङ्के सुप्तवान्निशि । तावद् दग्धं हुताशेन श्रेष्ठिनः सधनं गृहम् ॥ ५८॥ शृङ्गिकस्तुरगो यत्र बध्यते तत्र निश्चितम् । हयान् हन्त निहन्तीति मत्वा सोऽग्रे ततोऽचलत् ॥ ५९ ॥ मार्गमुल्लङ्घयन् धीमान्, प्राप मङ्गलपत्तनम् । तत्रासौ पितृमित्रेणाचलेनानीयतालयम् ॥ ६० ॥ ज्ञातवृत्तेन तेनापि प्रोक्तं दास्यामि ते धनम् । तस्यां निश्येव सर्वस्वं तस्य चौरैरमुष्यत ॥ ६१॥ भज्यते सा ध्रुवं शाखा कपोतो यामधिश्रयेत् । इति ध्यात्वा विखिन्नास्यः सोऽचालीदचलालयात् ॥ ६२ ॥ भुवं भ्रमन् क्रमात्तामलिप्तीं प्राप्तः सुधीः पितुः । सुहृदा सुदर्शनेन गृहमानीय सत्कृतः ॥ ६३॥
Jain Education International
For Personal & Private Use Only
२२३
www.jainelibrary.org