________________
२२२
श्रीदानोपदेशमाला (गा. ३९) पितृप्रहितवित्तानि, भुञ्जानः स तया समम् । निनाय द्वादशाब्दानि, क्रीडानिष्ठो निमेषवत् ॥ ४० ॥ क्रमेण क्षीणसर्वस्वे, स्व:प्रयाते सुमङ्गले । मातापि तनयप्रेम्णा प्रैषीदाभरणादिकम् ॥ ४१॥ शुम्भली तत्समालोक्य प्रक्षीणाखिलवैभवम् । धनसेनं विदाञ्चक्रे, निर्वृष्टलघुमेघवत् ॥ ४२ ॥ अनङ्गसेनयान्येद्युः पदमण्डनहेतवे । यावके याचिते वेश्या प्रैषीन्नीरसयावकम् ॥ ४३ ॥ तं रङ्गरहितं बाला सालोक्य जननी प्रति । कोपावेशवशादूचे, किमनेन विधीयते ॥ ४४ ॥ अक्काह नीरसालक्तप्रेषणव्याजतो मया । धनसेनस्वरूपं तेऽदर्यत पुत्र्यमुं त्यज ॥ ४५ ॥ बाला बभाण हे मातर्न वक्तव्यमिदं वचः । युगान्तेऽपि न मुञ्चामि धनसेनममुं प्रियम् ॥ ४६॥ पुत्र्यास्तस्मिन्नतिस्नेहं, मत्वा दासीभिरम्बिका । वासगेहात्तमानाय्य, रङ्कवन्निरवासयत् ॥ ४७ ॥ शाकिनीमुद्गलादीनां भवेत् काचित्प्रतिक्रिया । . विश्रम्भघातिनीनां तु, न क्वचित्पणयोषिताम् ॥ ४८ ॥ इत्थं मुहुर्मुहुर्ध्यायन् यावद् याति निजालये । तावत्तदुद्वसं दृष्ट्वा नरमेकं स पृष्टवान् ॥ ४९ ॥ तस्माद् व्यतिकरं ज्ञात्वा पितुः स्वर्गमनादिकम् । स दध्यौ कुधियं धिग्मां, येनेदृगपि न श्रुतम् ॥ ५० ॥ क्षीयन्तां देहिनस्तस्य यौवनं जीवितं कलाः । यो भुङ्क्ते मरणं यावद्वित्तं पितुरुपार्जितम् ॥ ५१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org