________________
२२१
अशनदानविषये श्रीधनसेन श्रेष्ठिकथानकम् तदेभभीतेस्त्रायद्भिरिव तत्सुहृदां गणैः । लीलावत्या गृहं वेगाद् धनसेनः प्रवेशितः ॥ २८ ॥ तत्र श्रेष्ठिसुतः स्वर्णमयपल्यङ्कसंस्थिताम् । सम्पूर्णपूर्णिमाचन्द्रबिम्बजिष्णुमुखश्रियम् ॥ २९ ॥ विस्मेराम्भोरुहाकारदृशं कृशतरोदरीम् । मृणालाभभुजावल्लीमिभकुम्भनिभस्तनीम् ॥ ३० ॥ सर्वाङ्गसुन्दराकारां, नवयौवनशालिनीम् । सखीजनवृतां वीणाक्वणदत्तश्रुतिद्वयाम् ॥ ३१ ॥ अनङ्गराजसर्वस्वराजधानी विलासिनीम् । अनङ्गसेनामालोक्य चेतस्येवमचिन्तयत् ॥ ३२॥ कलापकम् ॥ यदाद्यदर्शनेनापि ललनापि हरेन्मनः । तन्मन्ये प्रेयसी कापि सैषा मे पूर्वजन्मनः ॥ ३३ ॥ बालापि मन्मथाकारं तं वीक्ष्य मुदिताशया । उत्थाय निजपल्यङ्के धनसेनं न्यवेशयत् ॥ ३४॥ अन्यदा तारमैत्र्येण यत्सुखं समभूत्तयोः । तत्तावेव हि जानीतो ज्ञानवानथवा जनः ॥ ३५ ॥ परस्परं तयोर्भोगपरयोः शिवयोरिव । प्रजगाम त्रियामापि क्षणार्धमिव यामिनी ॥ ३६॥ सोऽपि तद्दिनमारभ्य, तद्विलासवशीकृतः । महाकार्येऽपि संजाते, तस्या गेहान्न निर्ययौ ॥ ३७॥ अनङ्गसेनया साकं भोगान् भुञ्जानमङ्गजम् । निशम्य भोगवस्तूनि तदर्थं प्राहिणोत्पिता ॥ ३८॥ कुट्टिनी धनसेनाह्वाङ्कितमुद्रां मुहुर्मुहुः । प्रेष्याग्रहीद् धनं सर्वमस्राणीव जलौकसः ॥ ३९ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org