________________
२२०
श्रीदानोपदेशमाला (गा. ३९) हे पुत्रि! यत् त्वयारब्धं व्रतं कुलवधूचितम् । तन्नः कुलकलङ्काय कलयालसलोचने! ॥ १६॥ तस्मात्कदाग्रहं त्यक्त्वा, धनवज्जनसङ्गमात् । समर्जितैर्धनैः स्वयं, कुटुम्बं परिपोषय ॥ १७ ॥ इति तस्या वचोऽनङ्गसेनाया हृदि नोपदम् । व्यधाद् यथा भुजङ्गस्य शिरोरत्ने महाविषम् ॥ १८॥ एकदा सा गवाक्षस्था, पथि यान्तं सुहृद्युतम् । धनसेनं निरीक्ष्यागादनङ्गाशुगवेध्यताम् ॥ १९॥ ततो वासगृहं प्राप्य बालानङ्गाग्नितापिता । लक्षयामाममंस्तालं त्रियामामपि यामिनीम् ॥ २० ॥ प्रातरेत्याक्कया प्रोचे, वत्से! का ते तनूव्यथा । साप्यभाषत हे मातरिदं मे शृणु कारणम् ॥ २१ ॥ यदाप्रभृति नेत्राभ्यां धनसेनो निरीक्षितः । तदाप्रभृति मच्चित्तं तदायत्तमजायत ॥ २२ ॥ अतस्तत्सङ्गमसुधासेकेन मदनाग्निजम् । निर्वापयाशु तापं मेऽन्यथा मज्जीवितक्षतिः ॥ २३॥ इत्याकर्ण्य प्रहृष्टा सा बभाषे तां निजाङ्गजाम् । मा खिद्य सद्य एवाद्य पूरयिष्ये तवेप्सितम् ॥ २४॥ ततः स्वयं स्वदासीभिस्तन्मित्रैश्चेभ्यनन्दनः । अभ्यर्थितोऽपि तद्वेश्मप्रवेशं नाभ्यमन्यत ॥ २५ ॥ लीलावत्यापि रुद्वैस्तत्सुहृद्भिश्छद्मनान्यदा । श्रेष्ठिभूस्तद्गृहद्वारं यावदानीयत द्रुतम् ॥ २६ ॥ तावत् तत्कृतसंकेतसंगराविभपालको । समकालं तमुद्दिश्य प्रेषयामासतुर्गजौ ॥ २७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org