________________
२१९
अशनदानविषये श्रीधनसेनश्रेष्ठिकथानकम् तस्य पृथ्वीपतेर्मान्योऽजनि श्रेष्ठी सुमङ्गलः । य एकविंशतिस्वर्णकोटीनामधिपो भुवि ॥ ३ ॥ यथा श्रीवासुदेवस्य, श्रीदेवी कमलाश्रया । तस्य सुमङ्गलस्यापि श्रीदेवी कमलाश्रया ॥ ४॥ तस्याः पत्या समं भोगान्, भुञ्जानाया यथासुखम् । कुक्षिपङ्केरुहे कोऽपि जीवो भृङ्ग इवावसत् ॥ ५ ॥ जातेषु नवमासेषु सार्धसप्तदिनेषु च । सम्पूर्णदौहदा बालाऽसूत सूनुं सुलक्षणम् ॥ ६॥ सुमङ्गलोऽप्यविधवागायद्धवलमङ्गलम् । जन्मोत्सवं व्यधात्सूनोर्धनसेनेति चाभिधाम् ॥ ७॥ लाल्यमानस्तथा पाल्यमानो धात्रीभिरादरात् । पित्रोर्मनोरथैः सार्धं सोऽवर्धिष्ट नवेन्दुवत् ॥ ८॥ जातेऽष्टवार्षिके पुत्र जनकः पठनाय तम् । कलाचार्याय वर्याय ददौ सन्मानपूर्वकम् ॥ ९॥ सोऽपि क्रमात्कलाचार्यादध्यैष्ट सकलाः कलाः । लेभे च यौवनं बालाजनमानसमोहनम् ॥ १० ॥ पिता निजतनूजस्य, बन्धुदत्ताङ्गजातया । प्रियदर्शनया साकं, पाणिग्रहमकारयत् ॥ ११ ॥ अथात्रैव पुरे लीलावतीवेश्याङ्गजाजनि । अनङ्गसेनानङ्गस्य सेनेवाङ्गेन सङ्गिनी ॥ १२॥ समाससाद सा सादरहिता सहिता गुणैः । कलाकेलिकलाकेलिनिलयां यौवनश्रियाम् ॥ १३ ॥ अपि शृङ्गारसर्वस्वतरङ्गैकतरङ्गिणी । केनापि हेतुना बाला रङ्गिणी न नरेष्वभूत् ॥ १४ ॥ तदीदृक् चेष्टितं ज्ञात्वा, शुम्भली विह्वलाशया । स्वकुलाचारचारूक्त्या पुत्रीं वक्तुं प्रचक्रमे ॥ १५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org