________________
२१६
श्रीदानोपदेशमाला (गा. ३६) तद्दिनं पावनं वेला सानुकूला च यत्र तु । प्रभुर्मदीये मूर्ध्नि स्वं कराम्भोजं निधाष्यसि ॥ १७८॥ इति ध्यानविधानोद्यन्मना यावदभूदियम् । तावन्नभो ददर्शासौ विमानालिविमालितम् ॥ १७९ ॥ कलापकम् ॥ वृन्दारकविमानानां यातायातैर्जगद्गुरोः । ज्ञानोत्पत्तिं परिज्ञाय सा व्रतायोत्सुकाभवत् ॥ १८० ॥ तदा सा चन्दनात्मानं देवताभिर्जिनान्तिके । उपनीतं निरीक्ष्याशु विस्मयं प्राप चेतसि ॥ १८१॥ मध्यमायां महापुर्यां महासेनवने स्थितः ।। वर्धमानः स्वहस्तेन तस्यै दीक्षामदान्मुदा ॥ १८२ ॥ अपरा अपि संसारवैराग्यरसरञ्जिताः । राजकन्यास्तया साकं, व्रतश्रियमशिश्रियन् ॥ १८३॥ ग्रहणासेवनाशिक्षादक्षाया भगवान् ददौ । प्रवर्तिनीपदं तस्या गौरवाय गुणाः खलु ॥ १८४ ॥ प्रपाल्य संयम तीव्रमार्याश्रीचन्दनार्यिका । सर्वकर्मक्षयादापदक्षयं पदमव्ययम् ॥ १८५ ॥ इत्थमिदं परिभाव्य चरित्रं चन्दनबालाया अतिचित्रम् । भव्याः! साभिग्रहमुनिदानं कुरुत यथा स्याद्वो भुवि मानम् ॥ १८६ ॥
(मत्तावृत्तम्) इति श्रीरुद्रपल्लीयगच्छशृङ्गारहारश्रीसंघतिलकसूरिशिष्यश्रीदेवेन्द्रसूरिविरचितायां श्रीदानोपदेशमालावृत्तौ कृताभिग्रहापश्चिमजिनदानविषये श्रीचन्दनबालाकथा समाप्ता॥ __आभिग्रहिकसत्पात्रदानवैषयिकं श्रीचन्दनबालादृष्टान्तमुक्त्वा तदेव पात्रदानं नवप्रकारैः कृतं सत् किं फलं कुर्यादिति गाथाद्वयेनाहरोमंचंचियगत्तो असणं पाणं च आसणं वसणं । वसही तह संथारं सुस्सूसा वंदणं तुट्ठी ॥ ३६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org