________________
२१५
सत्पात्रदानविषये श्रीचन्दनबालादृष्टान्तः वसुवृष्टिं शतानीको, गृह्णन्निन्द्रेण वारितः । अमुष्या न भवान् स्वामी, स्वामिनी चन्दना पुनः ॥ १६६॥ इयं यस्मै प्रमोदेन दत्ते तस्य त्विदं धनम् । न ह्यन्यवस्तुनः कश्चिदन्यः स्वामित्वमर्हति ॥ १६७ ॥ को वैभवमिदं वत्से! ग्रहीतेति महीभुजा । भाषिता चन्दना प्राह, तातास्येशो धनावहः ॥ १६८॥ येनासौ मत्पितावश्यं तादृशाद्वण्ठमोचनात् । पालनाल्लालनात्पोषकरणाचरणादपि ॥ १६९ ॥ धनावहोऽपि जग्राह चन्दनावचनाद् धनम् । गुरुवक्त्राम्बुजाद् धर्मोपदेशमिव तत्त्ववित् ॥ १७० ॥ इन्द्रो जगाद राजेन्द्र! प्रथमा चरमप्रभोः । सञ्जाते केवलज्ञाने भवित्रीय प्रवर्तिनी ॥ १७१॥ तस्मादस्माकमादेशात्पुण्यप्राप्यसमागमा । बालेयं कल्पवल्लीव, पालनीया त्वया नृप! ॥ १७२ ॥ इत्युक्त्वा नाकिनां नाथे सनाथीकृतताविषे । शतानीकोऽपि लोकोऽपि स्वं स्वं स्थानमुपेयिवान् ॥ १७३ ॥ कन्या शुद्धान्तमध्यस्था चन्दना जगदीशितुः । केवलोत्पत्तिमिच्छन्ती, वासरानत्यवाहयत् ॥ १७४ ॥ धनावहेन सा मूला गृहानिष्काशिता सती। भुङ्क्त्वा निजकुकर्माणि, श्वभ्रे सम्पत्स्यते मृता॥ १७५ ॥ स्वामिनो वर्धमानस्य, केवलोत्पत्तिसूचिका । किंवदन्ती कदायाता मत्कर्णामृतपानभा ॥ १७६ ॥ सन्ततं जनितासङ्ख्यहर्षं वर्षं तदेव हि । स एव महिमावासो, मासो दक्षः स पक्षकः ॥ १७७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org