SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २१४ श्रीदानोपदेशमाला (गा. ३५) अजातपूर्वे जातेऽस्मिन्नुत्सवे वत्सदेशराट् । शतानीको मृगावत्या समं तत्र समाययौ ॥ १५४॥ सदा मनसि सञ्जातानन्दया नन्दया समम् । समियाय सुगुप्तोऽपि समग्रसचिवाग्रणीः ॥ १५५ ॥ तं महान्तं महं श्रुत्वा लोहकारालयाद्रयात् । आगाद् धनावहः संपत्सुन्दरं निजमन्दिरम् ॥ १५६ ।। पुरःसरोऽप्सरोवर्यक्रियमाणोरुनाटकः । सौधर्माधीश्वरस्तत्राजग्मिवान् मुदिताशयः ॥ १५७॥ भद्रेऽहं भवतीं मन्ये, कृतकृत्यां यया प्रभुः । पारणं कारितो वीरस्तेनेत्यस्तावि चन्दना ॥ १५८॥ चम्पाभङ्गेऽथ धारिण्याः कञ्चुकी संपुटाभिधः । धृतपूर्वो मृगावत्या सार्द्धं तत्र समागमत् ॥ १५९ ॥ स तां चम्पेशजां ज्ञात्वा, तत्पल्लग्नस्तथारुदत् । यथा पुरीनृणां नेत्रैरकालेऽपि घनायितम् ॥ १६० ॥ रुदन्तं सौविदल्लं तं, दृष्ट्वाऽपृच्छन्नरेश्वरः । सोऽप्याहावहितीभूय देवेदं शृणु कारणम् ॥ १६१ ।। सौविदल्लम्-कञ्चुकिनम् । अवहितीभूय-सावधानीभूय । दधिवाहनधारिण्योः सुतां वसुमतीमिमाम् । दुस्थावस्थागतां दृष्ट्वा, दुःखेन रुदितोऽस्म्यहम् ॥ १६२ ॥ नृपोऽवददिमां कन्यां धन्यां मन्ये महीतले । यया कुल्माषदानेन, पूरितोऽभिग्रहः प्रभोः ॥ १६३ ॥ मृगावत्यपि तां जामिपुत्रीं विज्ञाय हर्षतः । भज वत्से! मदुत्सङ्गमित्यभाषत चन्दनाम् ॥ १६४ ॥ अथ पञ्चदिनन्यूनषण्मास्यां कृतपारणः । वर्धमानजिनाधीशो विजहार वसुन्धराम् ॥ १६५ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy