________________
२१३
सत्पात्रदानविषये श्रीचन्दनबालादृष्टान्तः भगवानपि हि द्रव्यादिभिः पूर्णमभिग्रहम् । । विज्ञाय चन्दनाग्रे स्वं पाणिपात्रममण्डयत् ॥ १४२ ॥ अहो विलोक्यतां दानमाहात्म्यं यज्जिनोऽपि हि । दायकस्य पुरः स्वीयं पाणिपञ प्रसारयेत् ॥ १४३ ॥ तया भावनया क्षिप्ताः कुल्माषाः स्वामिनः करे । स्वर्णस्थालस्थनीलाश्मलीलामकलयन्नलम् ॥ १४४ ॥ तदा दिव्यानुभावेन बालाया मूर्ध्नि कुन्तलाः । प्रादुरासन् यथा मेघे वृष्टे भुव्यङ्करोत्कराः ॥ १४५ ॥ आयसो निगडस्तस्याः पदपङ्कजयामले । स्वर्णनूपुरतामापदस्तिर्वादेशतां यथा ॥ १४६ ॥ तस्याः शीर्णानि वासांसि, देवदूष्यत्वमाप्नुवन् । अहो फलं हि सत्पात्रदानपुण्यमहीरुहः ॥ १४७ ॥ अस्मिन्नवसरे भक्तिभरनिर्भरचेतसः । देवा देवाङ्गनायुक्तास्तत्र धाम्नि समागमन् ॥ १४८ ॥ तदा दुन्दुभिनिर्घोषैश्चेलोत्क्षेपस्तथापरः । अहो दानमहो दानमेवं जयपरारवः ॥ १४९ ॥ अर्धत्रयोदशस्वर्णकोटेः सुमनसामपि । वृष्टिसृष्टिरिति व्यक्तं पञ्च दिव्यानि जज्ञिरे॥ १५०॥ युग्मम् ॥ दृष्टिहस्तकटीपादविन्यासेनापि भासुरम् । लास्यं पद्मसमानास्या विदधुर्विबुधाङ्गनाः ॥ १५१ ॥ तानमानलयग्राममूर्च्छनाबन्धबन्धुरम् ।। रागरङ्गोद्धरं गीतं, गायन्ति स्म सुरस्त्रियः ॥ १५२॥ आहतानाहता हस्तदण्डवाताहता इति । पञ्च शब्दा अताड्यन्त त्रिदशैरतिसंमदात् ॥ १५३ ॥
7.
।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org