________________
२१२
श्रीदानोपदेशमाला (गा. ३५) ततो धनावहे लोहकारगेहे गते सति ।। चन्दना भववैराग्यरङ्गितैवमचिन्तयत् ॥ १३१ ।। दधिवाहनभूभर्तुर्दुहितापि यदीदृशीम् ।। दुरवस्थामहं प्राप्ता पारवश्यस्य तत्फलम् ॥ १३२॥ उक्तं च-सोच्छ्वासं मरणं, निरग्नि दहनं नि:शृङ्खलं बन्धनम् । निष्पकं मलिनं विनैव नरकं सैषा महायातना । सेवासञ्जनितं जनस्य सुधियो धिक् पारवश्यं यतः, पञ्चानां सविशेषमेतदपरं षष्ठं महापातकम् ॥ १३३ ॥ (शार्दूलविक्रीडितम्) चिन्तयाप्यनया पूर्णं, तूर्णं यदि कुतोऽपि हि । *षष्ठपारणके कोऽपि, मुनिरेति तदास्म्यहम् ॥ १३४॥ तस्मै विशुद्धान् कुल्माषान् दत्त्वा विगतकल्मषा । स्वयमद्मीति निश्चित्य द्वारदेशमसावगात् ॥ १३५ ॥ युगलम् ।। चन्दना भावनापूर्वमृषीक्षार्थमितस्ततः । निक्षिपन्ती दृशं बाष्पाविलां यावदवास्थित ॥ १३६ ॥ तावत्स्वयं महावीरजिनचन्द्रः पुरे भ्रमन् । भिक्षार्थं चन्दनानेत्रकैरवातिथितां ययौ ॥ १३७ ॥ बाला विलोक्य त्रैलोक्यनायकं हृद्यचिन्तयत् । क्व मेऽधुनेदृशं भाग्यं यदत्रायाति तीर्थकृत् ॥ १३८ । भगवानपि तत्प्राज्यपुण्याकृष्ट इव प्रभुः । तत्रागतो यतो भाग्योदये पुंसां न किं भवेत् ॥ १३९ ॥ चन्दना निगडाबद्धपादान्तरितदेहली ।। सन्मुखं गन्तुमनलंभूष्णुः प्रभुमभाषत ॥ १४० ॥ नाथ! यद्यपि कुल्माषा न योग्यास्तव पारणे । तथाप्येतानुपादाय त्वं मां तारय तारय ॥ १४१॥ *एतच्चिन्तनीयम्, 'अष्टमपारणे इति' च गम्यते दृश्यताम्-थ्रो. ११. (पृ.२०१.)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org