________________
२११
सत्पात्रदानविषये श्रीचन्दनबालादृष्टान्तः रौद्रां तद्गिरमाकर्ण्य सकलोऽपि परिच्छदः । किंकर्तव्यजडीभूय चेतसीति व्यचिन्तयत् ॥ ११९ ॥
चेद्वच्मीदं तदा मूला द्वेष्टि नो चेद् धनावहः । क्रियते कोऽधुनोपाय इतो व्याघ्र इतस्तटी ॥ १२० ॥ तदा परिच्छदस्यान्तरेका नारी जरद्गवी । विममर्श मनस्येवं जीविष्यामि कियच्चिरम् ॥ १२१ ॥ यदमुष्याः सुकेश्या मे प्राणैः सत्वरगत्वरैः । उपकारो भवेत्कोऽपि, किं न लब्धं तदा मया ॥ १२२ ॥ सा तस्या भयमुत्सृज्य धीरतामवलम्ब्य च । मूलादुश्चेष्टितं स्पष्टमाचष्ट श्रेष्ठिनः पुरः ॥ १२३ ॥ यत्र सा चन्दना कन्या विद्यतेऽवद्यवर्जिता । निधानमिव तत्स्थानं, स्थविरास्मा अदर्शयत् ॥ १२४॥ श्रेष्ठी तद्द्वारमुद्घाट्य रोदनोच्छूनलोचनाम् । प्रातश्चन्द्रमसो बिम्बमिव.....वत्रिकाम्* ॥ १२५ ॥ ज्वलद्दवानलप्लुष्टलतामिव गतप्रभाम् । अयःशृङ्खलया बद्धपादां मुण्डितमस्तकाम् ॥ १२६ ॥ क्षुत्क्षामकुक्षिं तां वीक्ष्यासंख्यदुःखार्द्रिताशयः । वत्से! मा गा विषादं त्वमित्यभाषत चन्दनाम् ॥ १२७ ॥ कुलकम् ॥ श्रेष्ठी तद्भोजनस्यार्थं शीघ्रं रसवतीगृहे । गत्वा हृद्यानि खाद्यानि नापश्यदैवयोगतः ॥ १२८॥ केवलं तत्र कुल्माषान् मलिनान् खलचित्तवत् । सूर्पकोणे निधायाशु चन्दनायै समार्पयत् ॥ १२९ ॥ ऊचे च पुत्रि! कुल्माषांस्तावदास्वादयाधुना । यावत्ते निगडांश्छेत्तुमयस्कारमुपानये ॥ १३० ॥ *तिसृषु प्रतिषु पाठो नैव प्राप्यते...पाण्डुरवत्रिकाम् । इति प्रतिभाति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org