________________
२१०
श्रीदानोपदेशमाला (गा.३५) तदवश्यमियं बाला बालापि विषवल्लिवत् । उच्छेद्या ह्यन्यथानर्थहेतवे भाविनी मम ॥ १०७॥ पूजां कृत्वा च भुक्त्वा च पत्यौ हट्टे गते सति । मूला नापितमाहूय तस्या मुण्डममुण्डयत् ॥ १०८॥ निगडीकृतपादान्तां क्षिप्त्वापवरकान्तरे । द्वारं दत्त्वा च दुष्टात्मा परिच्छदमदोऽवदत् ॥ १०९ ॥ रे! रे! यः कोऽपि युष्माकं, मध्ये वृत्तान्तमेतकम् । श्रेष्ठिनः पुरतो वक्ता तं प्राप्स्यामि यमालयम् ॥ ११० ॥ तस्याः प्रकृत्याकृत्याया भीत्या भृत्या मृता इव । नोच्छसन्ति न जल्पन्ति नादन्ति न पिबन्ति च॥ १११॥ सन्ध्यायामर्कवन्ध्यायामापणात्कृतमार्पणात् । हh सत्संपदारम्ये समायातेन तेन सा ॥ ११२ ॥ कृतमार्पणात्-कृतलक्ष्मीसमर्पणात् । चन्दना दृश्यते नैवेत्युक्तः परिजनो निजः । मूलाभयभरभ्रान्तो यावत्किमपि नाब्रवीत् ॥ ११३॥ युग्मम् ॥ तावद्विमृष्टमिभ्येन, यदियं किल बालिका । स्वसखीभिः समं क्वापि रममाणा भविष्यति ॥ ११४ ।। रजन्यां च पुनः पृष्टः श्रेष्ठिना स्वपरिच्छदः । नोवाच तेन चाचिन्ति यत्सुप्ता भाविनी कनी ॥ ११५ ।। एवं दिने द्वितीयेऽपि श्रेष्ठिनोक्तो न सोऽब्रवीत् । ध्यातं च यदियं व्यग्रा भवित्र्यन्यत्र कुत्रचित् ॥ ११६॥ तृतीयेऽपि दिने बालामबालां गुणसम्पदा । अपश्यन् कोपतः श्रेष्ठी, परिवारमवोचत ॥ ११७ ॥ रे! रे! यः कोऽपि जाननो कन्यां प्रकटयिष्यति । तस्यात्यर्थमनर्थं श्राक्करिष्ये नात्र संशयः ॥ ११८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org