________________
सत्पात्रदानविषये श्रीचन्दनबालादृष्टान्तः
२०९ कदाचिच्चेदिमां बालां स्वःस्त्रीरूपविजित्वरीम् । नवयौवनपुण्याङ्गीमनङ्गपरमायुधम् ॥ ९५ ॥ विनिरीक्ष्य मम प्राणवल्लभो वल्लभीयति । तदा मे मन्दभाग्याया भविता किल का गतिः ॥ ९६॥ युग्मम् ॥ ईदृक्षे सुन्दरीरत्ने मुनीनामपि मानसम् । पञ्चबाणेषुलक्षत्वं यात्यन्यस्य तु का कथा ॥ ९७ ॥ अथ पान्थप्रदत्तात्र्ती ग्रीष्मर्ती दिनयौवने । श्रेष्ठी हट्टाद् गलत्स्वेदबिन्दुः सदनमासदत् ॥ ९८॥ तदा गृहादिकार्येषु, व्यग्रे परिजनेऽखिले । चन्दना निजचेतोवदमलं पुष्कलं जलम् ॥ ९९ ॥ उपादाय पितुः पादौ प्रक्षालयितुमादरात् । प्रावर्त्तत यतः प्रांशुवंश्यानामीदृशी स्थितिः ॥ १००॥ युगलम् ॥ को चित्तेइ मऊरं गई च को कुणइ रायहंसाणं । वरहत्थीण य लीलं विणयं च कुलप्पसूयाणं ॥ १०१॥ ईदृक्कर्मानभिज्ञाया विज्ञाया अपि तत्क्षणात् । तस्या अलिकुलश्यामः केशपाशः पतन्नधः ॥ १०२ ॥ मा पङ्कपङ्किलोऽश्लीललीलामाकलयेदलम् । इतीव श्रेष्ठिना स्वीयकराभ्यां विधृतो मुदा ॥ १०३ ॥ युग्मम् ॥ तदा तदीयकेशौघास्तमालश्यामलत्विषः । अलिलीलां ललुस्तस्य श्रेष्ठिनः पाणिपङ्कजे ॥ १०४॥ मूला जालान्तरालस्था तत्सर्वं भर्तृचेष्टितम् । वीक्ष्याकारणकोपाग्निज्वलिताङ्गीत्यचिन्तयत् ॥ १०५ ॥ यन्मया चिन्तितं पूर्वं, तदेवाविरभूदिदम् । नो चेदस्याः कथं नाथो वेणी नियमयेत्स्वयम् ॥ १०६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org