________________
२०८
श्रीदानोपदेशमाला (गा. ३५) तां पप्रच्छ च भद्रे! त्वं कासि कस्य सुजन्मनः । सुता किं ते कुलं किं च नाम कर्णामृतोपमम् ॥ ८३ ॥ श्रुत्वेति बाला तत्कालगलद्वाष्पाविलेक्षणा । मातर्धरित्रि! विवरं मत्प्रवेशकृते कुरु ॥ ८४॥ इतीव न्यग्मुखाम्भोजा, यावत्किमपि नो जगौ । तावत्सोऽचिन्तयद्यस्मान्नोत्तमाः स्वप्रकाशकाः ॥ ८५॥ युग्मम् ॥ श्रेष्ठी जगाद हे वत्से! खेदं त्यज मुदं भज । स्वमातृपितृगेहस्थमात्मानं च विदाङ्करु ॥ ८६ ॥ सापि तद्वचनं साक्षाद् द्राक्षापानोपमानकम् । निपीय परमानन्दमेदुरोदरतामयात् ॥ ८७ ॥ श्रेष्ठि श्रेष्ठोऽथ तां गेहे नीत्वा मूलां समालपत् । इयं ते निरपत्याया अपत्यत्वं श्रयत्वलम् ॥ ८८॥ सापि पत्यार्पितामेतां कन्यां कल्पलतामिव । प्रेमामृतेन संतोष्य परमां वृद्धिमापयत् ॥ ८९ ॥ सापि सर्वं परीवारमपारगुणसंपदा । सरङ्गा रञ्जयामास, मञ्जिष्ठेव सिचां चयम् ॥ ९० ॥ सिचाम्-वस्त्राणाम् । चन्दनादपि शीतेन तच्चरित्रेण नन्दितः । श्रेष्ठी धनावहस्तस्याश्चन्दनेत्यभिधां व्यधात् ॥ ९१ ॥ अन्यदा चन्द्रबिम्बार्द्धभालां नीलाम्बुजेक्षणाम् । वक्त्रश्रीविजिताम्भोजां पक्वबिम्बाधरोष्ठिकाम् ॥ ९२ ॥ मृणालकोमलभुजां कम्बुकण्ठी कृशोदरीम् । पीनोन्नतस्तनाभोगां, मरालगतिगामिनीम् ॥ ९३ ।। रक्ताशोकदलाकारिकरक्रमनखप्रभाम् । बालामालोक्य तत्कालं मूला चेतस्यचिन्तयत् ॥९४॥ त्रिभिर्विशेषकम्॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org