________________
सत्पात्रदानविषये श्रीचन्दनबालादृष्टान्तः
२०७
इति स्मरन्त्या धारिण्या वक्षःस्फोट: स कोऽप्यभूत् । येन सा सहसा प्राणैरमुच्यत महासती ॥ ७२ ॥ मातुर्विनाशसंजातशोका वसुमती तदा ।। रुरोद रोदसीपूरं स्त्रीणां हि रुदितं बलम् ॥ ७३ ।।
औष्ट्रिकोऽपि मृतां राज्ञी विनिरीक्ष्य विलक्षधीः । रुदती सुदतीमाश्वासयन्मधुकिरा गिरा ॥ ७४॥ शतानीके नृपे प्राप्ते, कौशाम्ब्यां समहोत्सवम् । वण्ठो निनाय कन्यां तां विक्रयाय चतुष्पथे ॥ ७५ ॥ तदा धनावहश्रेष्ठी गच्छंस्तेनैव वर्त्मना । बालामालोकयामास नयनानन्ददायिनीम् ॥ ७६ ॥ अध्यायच्चैष विक्रेता कन्यां कामगवीमिव । न हीदृशामपुण्यानां कन्यारत्नं गृहे स्थिरम् ॥ ७७॥ अस्या आकृतिरेवाशु ज्ञापयत्युत्तमं कुलम् । अतो मे निःसुतस्यैषा नन्दिनी स्यान्मनोमुदे ॥ ७८ ॥ आसां कल्लोललोलानां संपदां खलु किं फलम् । यदापत्पतितप्राणिवर्ग उद्धियते सदा ॥ ७९ ॥ तदेता दैवदत्ता मे गेहे सन्त्यमिताः श्रियः । अतो वण्ठाद् विमुच्यैनां, नयेऽहं ताः कृतार्थताम् ॥ ८० ॥ इति निश्चित्य स श्रेष्ठी धनेन द्रुतमौष्ट्रिकात् । श्वपचादिव तां धेनुमिव बालाममोचयत् ॥ ८१ ॥ गङ्गयेव तया कन्या, कलितश्चलितः क्षणम् । श्रेष्ठी भगीरथक्षोणीपाललीलामलं ललौ ॥ ८२॥
* वर्गो नोद्धियते सदा ॥ इति संगतो भाति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org