SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २०६ श्रीदानोपदेशमाला (गा.३५) तन्मध्यात्केनचिद्वित्तनिमित्तं भ्रमता सता । औष्ट्रिकेण प्रणस्यन्ती दधिवाहनभूपतेः ॥ ६०॥ औष्ट्रिकेण-उष्ट्रस्थायिसैनिकेन । पत्नी श्रीधारिणीदेवी, वसुमत्यङ्गजान्विता । धृता वेगेन धावित्वा, व्याधेनेव कुरङ्गिका ॥ ६१॥ युग्मम् ॥ कृतकृत्ये शतानीके वलिते स्वां पुरीं प्रति । औष्ट्रिक: पथि तद्रूपाक्षिप्तचित्तोऽभ्यधादिति ॥ ६२॥ कृशोदरि! कनीमेनां विक्रीय त्वां च वल्लभाम् । निजां विधाय गार्हस्थ्यफलं भोक्ष्ये यथासुखम् ॥ ६३ ॥ इति तद्वचनं वज्रपातप्रायं निशम्य सा । धारिणी दुःखसंतप्ता, दैवमेवमतर्जयत् ॥ ६४ ॥ हा हताशविधे! कस्तेऽपराधो विहितो मया । यत्त्वं नानाविधैर्दुःखैर्मी खेदयसि निर्दय! ॥ ६५ ॥ एकश्चम्पाधिराजस्य नि:सीमप्रेमवारिधेः ।। प्राणप्रियस्य तादृक्षो, विरहः खलु दुःसहः ॥ ६६ ॥ द्वितीयो राज्यतो भ्रंशस्तार्तीयैकः स्वयं पुनः । तादृग्भक्तपरीवारनाशः पाश इवाशुभः ॥ ६७॥ अन्यच्चोल्लण्ठवण्ठस्य कुवाक्तीक्ष्णशिलीमुखाः । शीलप्राणभिदो देहे लगन्तो व्यथयन्ति माम् ॥ ६८॥ तदरे दैव! मे दुःखमीदृग् जनयतस्तव । न किं मनोरथाः पूर्णा यच्छीलं हर्तुमीहसे ॥ ६९ ।। परं ते धातरत्रार्थे पौरुषं ज्ञास्यतेऽधुना । यत्सत्याः परमं भूषाशीलं मम हरिष्यसि ॥ ७० ॥ यद्वैतत्सुष्ठु न ध्यातं किन्तु पूर्वकुकर्मणाम् । विजृम्भितमिदं तस्मान्मरणं शरणं मम ॥ ७१ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy