________________
सत्पात्रदानविषये श्रीचन्दनबालादृष्टान्तः
एवं श्रीवर्धमानस्य जिनेन्द्रस्य सुदुस्तपम् । तपस्तपस्यतो मासाश्चत्वारो व्यतिचक्रमुः ॥ ४८॥ अथ चम्पामहापुर्याः पूर्वादिष्टो नरेश्वरः । समेत्य वत्सदेशेशं व्यजिज्ञपदिदं वचः 11 88 11 देव ! युष्मदरातिः श्रीदधिवाहनभूपतिः । प्रक्षीणबलसंभारः, सुजेयस्तव संप्रति ॥ ५० ॥ इति श्रुत्वा धराधीशो, विक्रमाक्रान्तभूतलः । प्रयाणसूचिकां ढक्कां तत्क्षणात्समताडयत् ॥ ५१॥ शतानीको निजानीकं, नौष्वारोप्यैकया निशा । त्रिश्रोत: श्रोतसा गत्वा चम्पापुरमवेष्टयत् ॥ ५२ ॥ त्रिश्रोतःश्रोतसा-गङ्गाप्रवाहेण । बहिर्निस्वाननिस्वाना गम्भीरा जज्ञिरेतराम् । अन्तःपुरं पुरन्ध्रीणां करुणध्वनयोऽपि च ॥ ५३॥ हा हता हा हता व्यक्तमिति पौरगिरो मिथः । अजायन्ततरां फेरुफेत्कारा इव दारुणाः ॥ ५४॥ अकस्मादेव संजातकम्पश्चम्पाधिपस्तदा । जवादनश्यदेकाकी सिंहादिव महामृगः ॥ ५५ ॥ शतानीको भटानाह जीवन्तं दधिवाहनम् । वेगेन गत्वा धृत्वा च समानयत मत्पुरः ॥ ५६॥ तेऽपि योधाः स्फुरत्क्रोधा विविधायुधपाणयः । पुरीं गत्वा नृपं नष्टं, श्रुत्वा राज्ञे न्यवेदयत् ॥ ५७॥ प्रातःक्षणे शतानीकश्चम्पापुरिसरित्पतिम् । मथयित्वा पुरारातिरिव श्रियमुपाददे ॥ ५८ ॥ सैनिकैरपि लुण्टाकैः शेषा लक्ष्मीः शिलोञ्छिता । लूनक्षेत्रकण श्रेणिरिव कर्षकपूरुषैः
॥ ५९ ॥
Jain Education International
For Personal & Private Use Only
२०५
www.jainelibrary.org