________________
२०४
श्रीदानोपदेशमाला (गा.३५) तदा नरवरः प्राह प्रिये! किमिति संप्रति । प्रदोषे पद्मिनीवत्त्वं विलक्षास्या विलक्ष्यसे ॥ ३६॥ साभ्यधान्नाथ! यद्वीरः प्रतिधाम परिभ्रमन् । अभिग्रहेण केनापि भिक्षां गृह्णाति न क्वचित् ॥ ३७॥ तद् देव जगदीशस्याभिग्रहो ज्ञायतामयम् । अन्यथा बुद्धिमन्मन्त्रिप्राज्यराज्यश्रिया किमु ॥ ३८॥ निशम्येति विशामीशः प्राह प्राणप्रिये! त्वया । प्रमादनिद्रया सुप्तः साधु जागरितोऽस्म्यहम् ॥ ३९ ॥ प्रातः श्रीवर्धमानस्य विज्ञायाभिग्रहं प्रिये! । कारयिष्यामि तं व्यक्तं, पारणं गुणकारणम् ॥ ४० ॥ अथ तत्र समायातं सुगुप्ताभिधमन्त्रिणम् । पप्रच्छ पृथिवीनाथः प्रभुपारणकर्मणि ॥ ४१ ॥ उवाच सचिवः स्वामिन्नत्रार्थे निशिता अपि । नं मे धियः प्रवर्तन्ते, वज्रभित्ताविवेषवः ॥ ४२ ॥ देव! द्रव्यादयो भेदा बहुधा जिनशासने । विना केवलिनं कोऽन्यो वेदितुं वक्तुमप्यलम् ॥ ४३ ॥ किन्तु राजेन्द्र! पौराणां पुरस्तादिति कथ्यते । यत्प्रभोः पारणार्थे भो ! नानाभोज्यं विधीयताम् ॥ ४४ ॥ भूपोऽपि पौरानाकार्य तत्तथैव समादिशत् । तेऽपि प्रमाणमित्युक्त्वा मुदिता मन्दिरं ययुः ॥ ४५ ॥ प्रभौ भिक्षार्थमायाते, नागराः परमादरात् ।। नानाविधानि शुद्धानि भोज्यवस्तून्यढोकयन् ॥ ४६॥ तानि प्रावृड्जलानीव, राजहंस इव प्रभुः । हित्वा जगाम तेषां च हृदि खेदपदं व्यधात् ॥ ४७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org