________________
२०३
सत्पात्रदानविषये श्रीचन्दनबालादृष्टान्तः मुहुर्मुहुरिदं पद्यं, ब्रह्मवद्योगिनीव सा । मन्त्रिजाया स्मरन्ती तद्दास्याभाष्यत सत्वरम् ॥ २४ ॥ भिक्षुरेषोऽनिशं भैक्ष्यमगृह्णन्नेति याति च । अतः स्वमानसे खेदं, मा स्वामिनि! कृथा वृथा ॥ २५ ॥ इति दास्या वचः श्रुत्वा नन्दा चेतस्यचिन्तयत् । अवश्यं स्वामिना कोऽपि जगृहेऽभिग्रहाग्रहः ॥ २६ ॥ तदा नन्दा निरानन्दा गृहायातेन मन्त्रिणा । अपृच्छयत प्रिये! किं ते केनाप्याज्ञाद्यखण्ड्यत ॥ २७॥ किं वाकारि मया कश्चिदपराधोऽथवा कुतः । किमप्यनिष्टमश्रावि यदेवं हृदि खिद्यसे ॥ २८॥ युगलम् ॥ ततो नन्दावदन्मन्त्रिमुद्राधर्तरि भर्तरि । त्वय्यर्तिहति जागर्ति को मां खेदयितुं भुवि ॥ २९॥ किन्तु जीवेश! खेदस्य हेतुरेकोऽस्ति यद्विभुः । श्रीवीरोऽभिग्रहापूर्त्या भिक्षां संत्यज्य गच्छति ॥ ३० ॥ तत्प्राणनाथ! वीरस्याभिग्रहं कर्मनिग्रहम् ।। विद्धि यस्मादनुक्तोऽपि बुधैरर्थः प्रबुध्यते ॥ ३१ ॥ उक्तं च-उदीरितोऽर्थः पशुनापि बुध्यते, हयाश्च नागाश्च वहन्ति नोदिताः । अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ॥ ३२॥ मन्त्री प्राह प्रिये! वेगात् खेदं त्यज मुदं भज । तथा यतिष्ये वीरस्य यथा ज्ञास्याम्यभिग्रहम् ॥ ३३॥ अथ केनापि कार्येण, तद्गृहागतया तया ।। मृगावत्याः प्रतीहार्या तत्सर्वमपि शुश्रुवे ॥ ३४ ॥ सापि गत्वा मृगावत्यास्तत्स्वरूपं व्यजिज्ञपत् । एतच्चाकर्ण्य कर्णाभ्यां सा सखेदाजनि क्षणम् ॥ ३५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org