________________
२०२
श्रीदानोपदेशमाला (गा.३५) सूर्पकोणस्थकुल्माषान् यदि मह्यं प्रदास्यति । तदा पारणकं कर्त्तन्यथास्तु नियमस्तु मे ॥ १२॥ युग्मम्॥ भिक्षार्थं तीर्थनाथः स प्रविवेश गृहे गृहे । प्रासुकं लभमानोऽपि, भैक्ष्यं नादादभिग्रही ॥ १३ ॥ अगृह्णति विभौ भिक्षामभिद्यत पुरीजनैः । किमाभिर्निष्फलाभिर्नो, लक्ष्मीभिरवकेशिवत् ॥ १४॥ एकदा श्रीमहावीरस्तपस्तेजःश्रियोल्बणः । भिक्षार्थी श्रीसुगुप्ताख्यमन्त्रिणः प्राविशद् गृहम् ॥ १५॥ प्रविशन्तं जिनाधीशं दृक्चकोरीनिशाकरम् । नन्दाभ्यानन्दितस्वान्ता ददर्श विममर्श च ॥ १६ ॥ अद्य मे मानुषं जन्म प्रबभूव फलेग्रहि । यत्स्वामी स्वयमायातः, कल्पद्रुरिव मद्गृहे ॥ १७ ॥ तद्भोज्यादीनि वस्तूनि, ढौकयित्वा प्रभोः पुरः । कृतार्थयामि स्वं यस्मान्नेदृक्षः प्राप्यतेऽतिथिः ॥ १८ ॥ तत उत्थाय सानन्दा सा नन्दा विहिताञ्जलिः । विभुं विज्ञपयामास, सुधामधुरया गिरा ॥ १९॥ इदं खाद्यमिदं स्वाद्यमिदं पेयमदोऽशनम् । प्रभो! प्रासुकमादाय मां तारय भवार्णवात् ॥ २०॥ अपूर्णाभिग्रहः स्वामी शुद्धमप्यशनादिकम् । हित्वा ततो निरैद्रोरगृहादिव महानिधिः ॥ २१ ॥ विधिवाताहतस्तस्या मनोरथमहीरुहः । पूर्वं पपात भूपीठे पश्चात्सा दुःखदुःखिता ॥ २२॥ क्षणेन प्राप्य चैतन्यं, तन्वी दध्यौ हृदि क्व मे । ईदृग्भाग्यं विधत्ते यत्पारणं मद्गृहे प्रभुः ॥२३॥ युग्मम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org