SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ सत्पात्रदानविषये श्रीचन्दनबालादृष्टान्तः २०१ पूर्णीचक्रे । अभिग्रहशब्दप्राकृतत्वान्नपुंसकलिङ्गता न दोषायेति गाथार्थः ॥ भावार्थस्तु कथया प्रथां नीयते, तथाहिअत्रैव भरते पूर्वदिग्विभागविभूषणम् । वत्सदेशोऽस्ति भूकामधेनोर्वत्स इवापरः ॥ १॥ तत्र कोशाम्बिकानाम पुरी जगति विश्रुता । यत्राशोकाः सदा लोकाः, श्रूयन्ते तरवोऽपि च ॥ २॥ तां शशास महानीकः शतानीकः क्षितीश्वरः । यत्कीर्त्तिवल्लेः पुष्पाणि ताराश्चन्द्रः फलं पुनः ॥ ३॥ चेटकक्ष्मापपुत्रस्य जायाजनि मृगावती । या रूपसंपदामेकमोकोऽस्तोकगुणोल्बणा ॥ ४॥ तस्य भूमीपतेरासीत् सुगुप्तः सचिवाग्रणीः । यं शिश्रियुर्धियः सर्वाः कलावन्तं कला इव ॥ ५॥ स्ववर्गविहितानन्दा नन्दा तस्य सधर्मिणी । या देव्याः श्रीमृगावत्या जीवितव्यमिवापरम् ॥ ६॥ श्रेष्ठी धनावहस्तत्र धनेन धनदोपमः । तद्भार्यानार्यकार्यद्रुमूला मूलाऽभिधानतः ॥ ७॥ अथ सिद्धार्थभूपालत्रिशलानन्दनो जिनः । छद्मस्थोऽपि हि निश्छद्मा विहरन् वसुधातलम् ॥ ८॥ कौशाम्बीपुरमभ्येत्य कर्ममर्मभिदाकृते । पौषकृष्णाद्यनन्दायामित्यभिग्रहमग्रहीत् ॥ ९ ॥ युगलम् ॥ निबिडैर्निगडैर्नद्धपदान्तर्वर्त्तिदेहली । रुदती सुदती भद्राकृतकुन्तलमस्तका ॥ १०॥ परप्रेष्यत्वमापन्ना कृताष्टमतपास्तथा । भिक्षुभिक्षाक्षणे क्षीणा, क्षोणिनायककन्यका ॥ ११॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy