________________
२००
श्रीदानोपदेशमाला (गा.३५) लम्-चञ्चलम् । पुनर्विशिनष्टि नलिनी-कमलिनी तस्या दलं-पत्रं, तत्र गतं यज्जलं-वारि, तदिव अतिचपलम्-अतिशयेन क्षणिकं विभवं ज्ञात्वा भो भव्या ! भावेन-त्रिकरणशुद्धया दानं ददीध्वं वितरणाय यत्नं कुर्वीध्वम् ॥ यदाहुः-परवादिद्विरदसिंहनादाः श्रीहेमचन्द्राचार्यपादाः । आपातलिकावत् संपत्क्षणिकं प्राणितमप्यसुभाजाम् । इति मत्वा निश्चयपूर्वं, शाश्वतिकेऽर्थे यत्नमुपाध्वम् ॥१॥ इति गाथार्थः ॥ दातॄणां विशेषगुणश्लाघामाहसव्वेवि दाणसूरा विहवे संते हवंति भुवणम्मि । वित्तरहियावि दाणं जे दिति त एव दाणपरा ॥३४॥
व्याख्या-सर्वेऽपि प्रायो विभवे-द्रव्ये सति भुवने दानशूरादानशौण्डा भवन्ति-जायन्ते। किन्तु ये पुरुषा वित्तरहिता अपिद्रविणलवहीना अपि, दानं-सत्पात्रदानं, ददति-वितरन्ति, त एव दानपरा-दातारः॥ उक्तं चमित्राणि तानि विधुरेषु भवन्ति यानि, ते पण्डिता जगति ये पुरुषान्तरज्ञाः । त्यागी स यः कृशधनोऽपि हि संविभागी, कार्यं विना भवति यः स परोपकारी।१। इति गाथार्थः ॥
(वसन्ततिलका) तत्स्वरूपं दृष्टान्तेन स्पष्टयन्नाहधण्णा चंदणबाला सा जयउ जिणस्स वद्धमाणस्स । पूरियमभिग्गहमिणं जीए कुम्मासदाणेण ॥ ३५॥
व्याख्या-धन्या-कृतकृत्या, सा चन्दनबाला-श्रीदधिवाहननरेन्द्रनन्दिनी, जयतु-सर्वोत्कर्षेण वर्त्तताम्, यया जिनस्य वर्धमानस्य-अपश्चिमतीर्थकृतश्छद्मस्थमुद्रया विहरत एष जिनमतविदितोऽभिग्रहो द्रव्यक्षेत्रकालभावरूपः, कुल्माषदानेन-सूर्पकोणाग्रगतमाषवितरणेन, पूरित:-परि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org