________________
सत्पात्रदानस्य फलवर्णनम्
१९९
मदन:-कामदेवो यैस्ते । एवंविधा भुवने-त्रिलोक्यां कृतदानाविहितसत्पात्रदानाः प्राणिनो भवन्तीति गाथार्थः ॥ अदत्तदानसुकृतानां यत्स्यात् तदाहगयमाणा दीणमणा, परिहीणधणा सया पराहीणा । गुणगणरहिया दुहिया, अदिणदाणजणा हुँति ॥ ३१॥
व्याख्या-गतमाना-गतं प्रणष्टं मानं पूजासत्कारादिर्येषां ते। पुनः किंविशिष्टाः? दीनमनसो-दीनं दयावचनं मनो मानसं येषां ते। पुनः किंभूताः? परिहीणधना:-परि-सामस्त्येन हीनं-प्रक्षीणं धनं-द्रव्यजातं येषां ते । पुनः कीदृक्षाः? सदा पराधीनाः-सदा-सर्वदा, पराधीनाःपरमुखप्रेक्षणपरायणाः । पुनः किंरूपाः? गुणगणरहिता-गुणा औदार्यधैर्य-गाम्भीर्य-विनय-नयप्रभृतयस्तेषां यो गणः समवायस्तेन रहिता:सर्वथा शून्या अत एव दुःखिताः-परगृहकर्मकरत्वेन सुखलवमप्यनासादयन्तोऽदत्तदाना-अवितीर्णसत्पात्रदाना जना भवन्तीति गाथार्थः ॥ तदेतद्दानं सत्पात्रनियुक्तं सत्किं फलं कुर्यादित्याशङ्क्याहविसमभुयंगम-हरि-करि-मारि-जरा-समर-वेरि-दरणियरा । णासंति दूरओ खलु सुपत्तदाणाणुभावाओ ॥ ३२॥
व्याख्या-विषमाश्च ते भुजङ्गमाश्च विषमभुजङ्गमाः-सर्पाः, हरयः -सिंहाः, करिणो-गजा, मारिर्मरकोपद्रवो, जरा-विस्रसा, समरःसंग्रामो, वैरिणः-शत्रवो, दरं-भयं, तेषां ये निकरा: समूहास्ते सत्पात्रदानानुभावात्, खलु-निश्चितं, दूरतो नश्यन्ति-विलयं यान्तीति गाथार्थः ॥ श्रियश्चापल्याद्दानविधानं प्रचिकटयिषुराहजलणिहितरंगतरलं, णलिणीदलगयजलंव्व अइचवलं । विहवं जाणिय दिजह दाणं भावेण भो भव्वा! ॥ ३३॥
व्याख्या-जलनिधिः-समुद्रस्तस्य ये, तरङ्गा:-कल्लोलास्तद्वत्तर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org