SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १९८ श्रीदानोपदेशमाला (गा.३०) कियत्यपि गते काले किमप्यद्यापि विद्यते । इति भूपेन सा पृष्टा प्राह स्वामिन्न किञ्चन ॥ २९ ॥ ततस्तं मण्डिकस्तेनं छद्मना केनचिन्नृपः ।। व्यापादयाम्बभूवाशु राज्ञां धर्मोऽयमेव हि ॥ २९८ ॥ श्रीमूलदेवभूमीन्द्रः स्थाने स्थाने जिनालयान् । कारयन् दानशालाश्च, राज्यश्रीफलमाददे ॥ २९९ ॥ राजा सुखेन साम्राज्यं पालयन्नायुषः क्षये । मृत्वा समाधिसंयुक्तः स्वर्गश्रियमशिश्रियत् ॥ ३०० ॥ इत्थं यथा दुर्लभचित्तवित्तसत्पात्रयोगगुरयं फलाढ्यः । श्रीमूलदेवेन सुदानवारा चक्रे तथान्यैरपि संविधेयः ॥ ३०१॥ (इन्द्रवज्रा) इति रुद्रपल्लीयगच्छशृङ्गारहारश्रीसंघतिलकसूरिशिष्यश्रीदेवेन्द्रसूरिविरचितायां श्रीदानोपदेशमालावृत्तौ चित्तवित्तसत्पात्रसामग्रीदानविषये श्रीमूलदेवनृपकथा समाप्ता ॥३०२॥ चित्तवित्तसत्पात्रसामग्रीवैषयिकं श्रीमूलदेवनरेन्द्रप्रबन्धमुक्त्वा प्राग्जन्मकृतदानसुकृतानां कीदृग् फलावाप्तिः स्यादित्याह॥ णीरोगा गयसोगा पामियभोगा पण?रिउवग्गा । रूवपराजियमयणा, हवन्ति भुवणम्मि कयदाणा ॥ ३०॥ व्याख्या - नीरोगा न विद्यते रोगो ज्वरभर-भगन्दर-जलोदरप्रभृतिसप्ताधिकशतव्याधिरूपो येषां ते। पुनः किंभूतास्ते? गतशोका गतः शोकः पुत्र-मित्र-कलत्र-भ्रातृ-स्वजनवियोगलक्षणो येषां ते। पुनः किंविशिष्टास्ते? प्राप्तभोगा:-प्राप्ता भोगाः स्पर्शन-रसन-घ्राणचक्षुः-श्रोत्रेन्द्रियसुखदायित्वेन पञ्चप्रकारा यैस्ते । पुनरपि कीदृशास्ते? प्रणष्टरिपुवर्गाः-प्रणष्टः सर्वथा क्षयं गतो रिपुवर्गः शत्रुपक्षो येषां ते। अन्यच्च रूपपराजितमदना-रूपेण शरीरसौन्दर्येण पराजित:-किङ्करीकृतो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy