________________
चित्त-वित्त-सत्पात्रसामग्रीदानविषये श्रीमूलदेवनृपकथा नरेश्वरोऽपि चौरस्य प्राप्त्या रञ्जितमानसः । वेश्मन्यगाद्यतः पुंसामिष्टलब्धिर्न किं मुदे ॥ २८५ ॥ जाते प्रातःक्षणे राजपाटिकाव्याजतो नृपः । गजारूढोऽनु तत्स्थानं प्रतस्थे सपरिच्छदः ॥ २८६ ॥ अन्तश्चतुष्पथं गच्छन्नृपो दूष्यापणे स्थितम् । पट्टकैर्बद्धजङ्घोरं कुर्वाणं तूर्णनक्रियाम् ॥ २८७ ॥ सशंकं निक्षिपन्तं स्वां दृशं दिक्षु विदिक्षु च । तमेव तस्करं मत्वा ववले स्वालयं प्रति ॥ २८८॥ युग्मम् ॥ क्षोणिपस्तत्क्षणादेव स्थानाभिज्ञानपूर्वकम् । आदिदेश निजप्रेष्यांस्तदानयनहेतवे ॥ २८९ ॥ तेऽपि तस्यान्तिकं गत्वा प्रोचुर्ते भद्र! भूपतिः । त्वामाह्वयति केनापि, हेतुना तत्त्वमेहि भोः! ॥ २९० ॥ सशङ्कचित्तोऽनुत्पन्नापरोपायः स तैः सह । सर्वंसहामहाराजं, जगाम च ननाम च ॥ २९१ ।। स निवेश्यासने भूमीभुजा मधुकिरा गिरा । बभाषे भद्र! मह्यं त्वं, निजां भग्नीं समर्पय ॥ २९२ ॥ चौरो दध्यौ ध्रुवं कार्पटिकवेषेण मे स्वसा । अनेनादर्शि यामिन्यामन्यथा वेत्त्यसौ कथम् ॥ २९३ ॥ तद्ददामीति निश्चित्य चौरः प्रोचे नरेश्वर! । एनामादत्स्व यद् धात्रा त्वत्कृतेऽकारि सा स्फुटम् ॥ २९४ ॥ गुहातस्तां समानाय्य नरेन्द्रः परिणीतवान् । मण्डिकाय महामात्यपदवीं विततार च ॥ २९५ ॥ धूर्तो विश्वंभराभ; तद्वाक्येन ततोऽन्वहम् । रूप्यरत्नहिरण्यादिवस्तून्यानाययत्यलम् ॥ २९६ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org