________________
१९६
स पारिपन्थिको ग्रन्थिं बद्ध्वा तन्मूर्न्यधारयत् । सोऽपि तत्स्थानकज्ञप्त्यै तमुवाह महामतिः ॥ २७३॥ पारिपन्थिकः - चौरः ।
गतौ तौ नगराभ्यर्णजीर्णारण्ये गुहामुखात् । शिलां विशालामुत्सार्य प्रविष्टौ हृष्टचेतसौ ॥ २७४ ॥ अस्य प्राघूर्णकस्य त्वं प्रक्षालय पदाविति । चौरेण स्वस्वसादिष्टा, कौमारव्रतधारिणी ॥ २७५॥ उपकूपमियं भूपमासने विनिवेश्य तम् । क्रमौ प्रक्षालयन्ती तद्रूप श्रीविस्मिताजनि ॥ २७६॥ अमुष्य नररत्नस्य विनाशो मा स्म भूदिति । विचिन्त्य सा कृपासारं वचस्तत्पुरतो जगौ ॥ २७७ ॥ देव! पूर्वं मया कूपेऽस्मिन्नङ्घ्रिक्षालनच्छलात् । बहवः पातिता लोकाश्चौराणां हि कुतः कृपा ॥ २७८॥ क्षेत्री न त्वामहं कूपेऽतस्त्वं मदुपरोधतः ।
इतो व्रज जवान्नो चेदावयोः कुशलं न हि ॥ २७९ ॥ ततो विक्रमराजोऽयं निरगात् तद्गिरा त्वरा । यतो हितोपदेशाः स्युः कस्य नानन्ददायिनः ॥ २८० ॥ गते च तस्मिन् स्वक्षूणरक्षार्थं याति यात्ययम् । इति सा पूच्चकारोच्चैरहो मतिमतां मतिः ॥ २८१ ॥ स्वक्षूणरक्षार्थम् - निजक्षतिरक्षणार्थम् । प्रचण्डो मण्डिकश्चौरश्चण्डधारासिदण्डभृत् । विश्वंभराभुजः पृष्ठे निकृष्टोऽधावदुच्चकैः ॥ २८२ ॥ चौरं राजा निजाभ्यर्णमायातमवगत्य सः I चत्वरस्थोपलस्तम्भपृष्ठभागे न्यलीयत ॥ २८३ ॥ स एवायमिति ज्ञात्वा कोपान्धो मण्डिकोऽसिना । तं दृषत्स्तम्भमाहत्य व्यावृत्य च गतो गृहम् ॥ २८४॥
श्रीदानोपदेशमाला (गा.२९)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org