________________
चित्त-वित्त-सत्पात्रसामग्रीदानविषये श्रीमूलदेवनृपकथा इत्युक्त्वा तांश्च सत्कृत्य कृत्यविद् व्यसृजत्ततः । आहूय मङ्घ नगरारक्षं साक्षेपमब्रवीत् ॥ २६२ ॥ रे दुष्ट! पुरलुण्टाकं मलिम्लुचमुपानय । नो वा भवन्तं तत्स्थाने निग्रहीष्याम्यसंशयम् ॥ २६३ ॥ मलिम्लुचम्-चौरम् । इत्याकर्ण्य पुरारक्षो विलक्षो भाषते स्म तम् । देव! तद्धृतयेऽनेके मयोपाया विनिर्मिताः ॥ २६४ ॥ किन्तु तस्मिंस्तडिद्दण्ड इव द्राग् दृष्टनष्टके । प्रयुक्ता अपि ते बाढं न लगन्ति करोमि किम् ॥ २६५ ॥ ततः सायं स्वयं राजा प्रावृतान्धपटः स्फुटम् । परमोषिपरिच्छित्त्यै निरगान्नगराद् बहिः ॥ २६६ ।। परमोषिपरिच्छित्त्यै-चौरज्ञप्त्यै । मठादिशून्यस्थानेष्वटन्नृपो नाप तस्करम् । अभव्य इव संसारकान्तारे बोधिसेवधिम् ॥ २६७ ।। चौरानवाप्तिसंतप्तमानसो मानसागरः । क्वापि देवकूले शून्ये श्रान्तो विश्रान्तिमातनोत् ॥ २६८॥ तदाकस्मादभीश्चण्डो मण्डिकस्तस्करेश्वरः । कोऽत्र प्रसुप्त इत्युच्चैर्वदंस्तत्र समागमत् ॥ २६९ ॥ राजाप्याकृतिमात्रेण, स्तेनं मत्वेत्यभाषत । सुप्तोऽस्म्यहं कार्पटिकोऽस्मादृशां स्थानमीदृशम् ॥ २७० ॥ रे कार्पटिक! निर्भाग्यागच्छ दौस्थ्यं छिनद्मि ते । रयादितीरिते तेन, नृपस्तत्केटकेऽलगत् ॥ २७१ ॥ तत्केटके-तत्पृष्ठे । देश्यशब्दोऽयम् ।। स्तेनस्तेन समं क्वापि, महेभ्यसदने गतः । मुषित्वा स्वर्णरत्नादि, नगरान्निरयाद्रयात् ॥ २७२ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org