________________
१९४
या देव्यज्ञानतोऽवज्ञा निरमायि मया त्वयि ।
सा न स्मार्या यतो मूढा, न युक्तायुक्तवेदिनः ॥ २५० ॥ यद्वा हे स्वामिनौ ! सत्यं जन्मतोऽप्यस्म्यचेतनः । अतः पितृभ्यामचलेत्यभिधा विदधे मम ॥ २५१॥ इत्युक्त्वा भूतलन्यस्तमस्तकः सोऽब्रवीत्पुनः । देवानेनागसावन्तीशेन निःसारितः पुरात् ॥ २५२॥ तन्मामगतिकमिव बम्भ्रमन्तमितस्ततः । स्वस्थानवासदानेन त्वं कृतार्थय पार्थिव ! ॥ २५३॥ तद्वचःश्रवणोत्पन्नकारुण्यरसरञ्जितः ।
श्रीदानोपदेशमाला (गा. २९)
मूलदेवनृपः श्रेष्ठिपृष्ठे हस्तमदान्मुदा ॥ २५४ ॥ देवदत्तापि संस्थाप्य भोजयित्वा च सादरम् । दुकूलान्यचलं पर्यधापयन्मुदिताशया ॥ २५५ ॥ राज्ञासौ मुक्तशुल्कोऽगादवन्त्यां तद्गिरा स च । विचारधवलक्ष्माभृदचलं बह्वमानयत् ॥ २५६ ॥ विप्रो निर्घृणशर्मापि भूपीभूतं निशम्य तम् । आगाद् ग्रामं तमेवास्यादृष्टास्यस्य नृपो ददौ ॥ २५७॥ अदृष्टास्यस्य-अदृष्टमास्यं यस्य सः, तस्य ।
अथ नागरिकाः सर्वे चिन्ताचान्तहृदो मिथः ।
मिलित्वा नृपतिं गत्वा, नत्वा चैवं व्यजिज्ञपन् ॥ २५८ ॥ देव! शासति साम्राज्यं त्वयि चौरेण केनचित् । अस्माकमपि सर्वेषां लुण्ट्यन्ते प्रत्यहं गृहाः ॥ २५९ ॥ तत्प्रसद्य प्रभोऽन्यत्र स्थानेऽस्मान् प्रेषय द्रुतम् । तत्रस्थैरपि ते नाम्ना, स्वोदरं पूरयिष्यते ॥ २६०॥ एवमाकर्ण्य वर्णानां राजावोचदतः परम् ।
सुस्थास्तिष्ठत यूयं तं निग्रहीष्यामि तस्करम् ॥ २६१ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org