________________
१९३
चित्त-वित्त-सत्पात्रसामग्रीदानविषये श्रीमूलदेवनृपकथा रे रे विदार्यन्तां पण्यग्रन्थयस्तैस्तथाकृते । मुक्ताप्रवालरैरूप्यादिकमाविरभूत्ततः ॥ २३८ ॥ तन्निरूप्य नृपः कोपाद् बभाषे पुरुषान्निजान् । अरे! निबध्यतां बाढमेष प्रत्यक्षतस्करः ॥ २३९ ।। चौरवत्कम्पमानाङ्गे तस्मिन् बद्धे धराधिपः । शिक्षामारक्षकेभ्यः श्राग् दत्त्वा प्रासादमासदत् ॥ २४० ॥ अन्तश्चतुष्पथं तैः स हन्यमानः पुनः पुनः । पौरैः सकरुणं वीक्ष्यमाण आनिन्यिरें नृपम् ॥ २४१ ।। तं गाढं बन्धनैर्बद्धं, विबुध्य श्लथबन्धनम् । व्यधापयन्नृपो यस्मान्महान्तः सदयाशयाः ॥ २४२ ॥ प्रोचे चाचल! मां वेत्सि वा न वा सोऽब्रवीदिति । देव! त्वामवनीनाथं को न वेद महीतले ॥ २४३ ॥ नरेश्वरो जगौ श्रेष्ठिन्! पटुभिश्चटुभिः कृतम् । सत्यं वदाथ सोऽवादीद् देव! सम्यग् न वेम्यहम् ॥ २४४ ॥ राज्ञापि संज्ञयाहूता सर्वाङ्गीणविभूषणा । देवदत्ताययौ तस्यार्द्धासने निषसाद च॥ २४५ ॥ तां वीक्ष्याऽमन्दमन्दाक्षावशेनाधोमुखेऽचले । संजाते देवदत्तेति तमुवाच वचस्विनी ॥ २४६ ॥ सोऽयं श्रीमूलदेवो यो भवताभिहितस्तदा । यत्त्वयापि विमोच्योऽहं दैवाद् व्यसनतां गतः ॥ २४७ ।। तन्मूलदेवभूपालः कृपालुस्त्वां विपद्धतम् । मुमोचेति निशम्याशु तौ प्रणत्याचलोऽब्रवीत् ॥ २४८ ॥ यद् दूषणं मया देव! चक्रे तत्क्षम्यतामिदम् । प्रायः प्रणामपर्यन्तः स्यात् कोपो हि महात्मनाम् ॥ २४९ ॥
* आनिन्यानो नृपम् इति पाठः संगतो भाति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org