________________
१९२
श्रीदानोपदेशमाला (गा.२९) उक्तं च- गौरवाय गुणा एव न तु ज्ञातेयडम्बरः । वानेयं गृह्यते पुष्पमङ्गजस्त्यज्यते मलः ॥ २२६ ।। वानेयम्-वने जातम् । नृपस्तया समं पञ्चोपचाररुचिरांश्चिरम् । भुञ्जानो भङ्गरान् भोगान्, कालं गमयति स्म सः ॥ २२७ ।। इतश्च व्यवसायार्थमचलः सार्थपार्थिवः । आययौ नगरं बेन्नातटं पारसकूलतः ॥ २२८॥ जनं कमपि पार्श्वस्थं, नृपाख्यां पृच्छति स्म सः । राजा विक्रमराजोऽत्र जयवानिति सोऽब्रवीत् ॥ २२९ ॥ भृत्वा रत्नैस्ततः स्थालं भूपालमिलनाय सः । ययौ ननाम चामुष्मै राजासनमदापयत् ॥ २३० ॥ निविष्टो विष्टरे श्रेष्ठी प्रत्यभिज्ञायि भूभुजा । न तु तेनाचलेनायमवनीवनितापतिः ॥ २३१ ॥ राजा प्राह कुतः श्रेष्ठिन्! सोऽवक् पारसकूलतः । ततो नृपेण ताम्बूलादिनासौ बह्वमन्यत ॥ २३२ ॥ पण्यदानकृते पञ्चकुलं न्यायकलं प्रभो! । आदिशेत्युदिते तेन, राजाह स्वयमेम्यहम् ॥ २३३॥ महाप्रसाद इत्युक्ते श्रेष्ठिना तत्र पार्थिवः । ययौ शुल्ककृते गूढकोपः पञ्चकुलान्वितः ॥ २३४ ॥ शङ्खश्रीखण्डमञ्जिष्ठादन्तपूगीफलादिकम् । क्रयाणकं वणिक् पञ्चकुलाध्यक्षमदर्शयन् ॥ २३५ ॥ भूपः प्राहैतदेतावदेवं सोऽप्यूचिवानथ । राजाधिकारिणः प्रोचेऽस्यार्ध: शुल्को विधीयताम् ॥ २३६ ।। किन्तु पण्यं ममाध्यक्षं तुलायां तोल्यतामिदम् । तैस्तत्तथाकृतं स्फारं भारं मत्वा नृपो जगौ ॥ २३७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org