________________
१९१
चित्त-वित्त-सत्पात्रसामग्रीदानविषये श्रीमूलदेवनृपकथा ततश्च सचिवैः पञ्चदिव्यैर्द्रागधिवासितैः । सामन्तादिजनाध्यक्षमहं राज्ये निवेशितः ॥ २१४ ॥ तदा देवतया व्योमगतया हितया तया ।। चक्रे विक्रमराजेति नाम मे भुवि विश्रुतम् ॥ २१५ ॥ तद्राज्यं त्वां विना देवि! न मे संतोषपोषदम् । अतस्त्वया नृपं पृष्ट्वा, सनाथीक्रियतामिदम् ॥ २१६ ॥ एवं लिखित्वा लेखं स प्रेष्यहस्ते प्रियां प्रति । प्रैषीद्विचारधवलभूपाय प्राभृतम् तथा ॥ २१७ ॥ सोऽपि तत्र गतो देवदत्तायै लेखमार्पयत् । सापि तं वाचयित्वाभूदमन्दानन्दमेदुरा ॥ २१८॥ तं भोजयित्वा संदेशहारकं भूर्जपत्रकम् । प्राभृतं च समादाय देवदत्ता ययौ नृपम् ॥ २१९ ॥ सा प्राह देव! श्रीमूलदेवभूपस्य मानवः । स्वरूपं मत्कृते युष्मत्कृते प्राभृतमानयत् ॥ २२० ॥ तदिदं भूर्जपत्रं च प्राभृतं चावधार्यताम् । राजापि तं निरूप्याह, रम्भोरु! शृणु मद्वचः ॥ २२१ ॥ न त्वमेव तदीयासि मद्राज्यमपि तस्य तु । अतस्तत्र गतापि त्वं न मे खेदाय जायसे ॥ २२२ ।। स्वामिन्! महाप्रसादोऽयमिति प्रोक्ते तया नृपः । देवदत्तां महाभूत्या युतां प्रेषीत्तकं प्रति ॥ २२३ ॥ मूलदेवनृदेवोऽपि तां निशम्य समागताम् । गत्वा च संमुखं प्रावेशयत् स्वपुरि सोत्सवम् ॥ २२४ ।। तेन राज्ञातिविज्ञेन, राज्ञीषु सकलास्वपि । सा पट्टमहिषी चक्रे गौरवाय यतो गुणाः ॥ २२५ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org