________________
१९०
श्रीदानोपदेशमाला (गा.२९) तदवश्यमसौ वध्य इत्युक्ते पृथिवीभुजा ।। साह नाथामुना श्वानसमेन निहतेन किम् ॥ २०२॥ राजोचेऽस्या गिरा मुक्तोऽस्यतस्त्वं तं कलानिधिम् । संगवेष्यानयत् क्षिप्रं प्रवेशोऽपरथा न ते ॥ २०३ ।। नृपं नत्वा पुनर्जातमिव जानन् स्वकं ततः । तं गवेषयितुं मूलदेवं द्राग्निर्गतोऽचलः ॥ २०४॥ अचलोऽपि तदप्राप्त्या तत्र स्थातुमशक्नुवन् । प्रच्छन्नं वहनान्याशु, भृत्वा नानाक्रयाणकैः ॥ २०५ ।। आपूर्य चाम्बुमार्गेण, परीवारपरीवृतः ।। निजानुकूलं कूलं स ययौ पारसनामकम् ॥ २०६ ॥ बेन्नातटपतित्विा , तद्वृत्तं चरपूरुषैः । प्रियायै देवदत्तायै, लेखमेवं लिलेख सः ॥ २०७॥ स्वस्ति बेन्नातटस्थानान्मूलदेवः क्षितीश्वरः । श्रीमान् विक्रमराजेत्यपरपर्यायविश्रुतः ॥ २०८ ॥ वल्लभां देवदत्तां स्वप्राणेभ्योऽप्यतिवल्लभाम् । स्तनोपपीडमाश्लिष्यादिशत्यादरपूर्वकम् ॥ २०९ ॥ युगलम्॥ श्रेयः श्रेणिरिहास्माकं साकं परिजनेन तु । शुभवत्या भवत्यापि, विज्ञाप्यं निजकौशलम् ॥ २१० ।। कार्यं च मयका दानं मुनये प्रददे मुदा । तद्भक्ता देवता प्रीता, प्रोचे वत्स! वरं वृणु ॥ २११ ।। मयापि भवती देवदत्ता, मत्तेभगामिनी । राज्यं चेभसहस्रेण, विराजितमयाच्यत ॥ २१२ ।। तयोक्तमचिरेणेदं, भविता भवतः स्फुटम् । चिरन्तननृपेऽपुत्रे, धर्मराजगृहं गते ॥ २१३ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org