________________
९८९
९८९
चित्त-वित्त-सत्पात्रसामग्रीदानविषये श्रीमूलदेवनृपकथा यथा चित्तादिसामग्र्यासाधि पुण्यं पुरामुना । तथोत्साहादिशक्त्या द्रागधुनाप्यरिमण्डलम् ॥ १९० ॥ ऐरावणोपमानेभसहस्रेण विराजितम् । राजा विक्रमराजाख्यो राज्यं प्राज्यं शसास सः ॥ १९१ ।। रूपापहस्तितस्व:स्त्रीपरमन्तःपुरं नृपः । देवदत्तागतस्वान्तः सर्वं शून्यममन्यत ॥ १९२ ॥ विचारधवलक्षोणीपालेन सह पार्थिवः । प्राभृताम्भोमुचा प्रेमवल्लीमुल्लासिनी व्यधात् ॥ १९३॥ इतश्च मूलदेवस्य भर्तुस्तादृग्विडम्बनाम् । दृष्ट्वा विरक्तहद्देवदत्ता प्राहाचलं प्रति ॥ १९४ ।। रे धृष्ट! दुष्ट! पापिष्ठ! वेश्याहं न तु ते प्रिया । तदितो व्रज नेदृक्षः क्षुद्रोऽस्माभिर्गवेष्यते ॥ १९५ ।। इत्युक्त्वा तत्क्षणाद्देवदत्ता गत्वा नृपं जगौ । स्वामिन्! स मे वरः सद्यः प्रसद्याद्य प्रदीयताम् ॥ १९६ ।। याचस्वेति नरेन्द्रेण पृष्टाभाषिष्ट सा स्फुटम् । राजन्नतः परं मूलदेवः प्राणप्रियोऽस्तु मे ॥ १९७ ॥ अचलो गृहमागच्छन्निषेध्यश्च सुनिश्चितम् । भूपः प्राह भवत्वेवं, किमिदं तन्निवेदय ॥ १९८ ॥ साचलद्वेषिणी मूलदेवस्य स्वच्छचेतसः । आमूलचूलं वृत्तान्तं नृपस्याग्रे न्यवेदयत् ॥ १९९ ॥ तन्निशम्य विशामीशो भ्रकुटीविकटाननः । वेगादचलमाकार्याचचक्षे परुषाक्षरम् ॥ २०० ।। रे! पाप ! यदिमावस्मत्प्राणेभ्योऽप्यतिवल्लभौ । पराभवसि निस्त्रिंशस्तत्किं स्वामी त्वमेव हि ॥ २०१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org